पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१०७) कात्वमित्यादि- द- - का त्वं देवी मानुषी राक्षसी वेति । एकाकिनी अस- हाया । 'एकादाकिनिच्चासहाये |५|३|५२|| इति आकिनिच् । भीर इत्यामन्त्रणं भयप्रकृतित्वात् स्त्रीणाम् । निरन्वया निरनुगमा जना यस्मि- न्वने यत्र न कथंचिन्मनुष्याणां सम्भवः । क्षुध्यन्तोऽपि बुभुक्षमाणा अपि । दिवादित्वात् श्यन् । व्याला हिंस्रा व्याघ्रादयः कथं वा त्वां नाघसन् न भक्षितवन्तः । अदेः 'लुङ्सनो |२|४|३७७' लदित्वात् च्लेरङ् । क्षुध्यन्तो नाघसन्निति पाठान्तरम् । तत्र कथं न वा अपरिचितानेवाघसन् इति योग्यम् । अपालां सतीं अविद्यमानः पालो यस्या इति । पाल रक्षणे इति चौरादिकः । पालयतीतिं पालः | पचाद्यच् । यदा प्रयोजकविवक्षा तदा 'पातेर्णौ लुगू वक्तव्यः' इति लुक् । ततः पचाद्यच् ॥ ६६ ॥ हृदयंगममूर्तिस्त्वं सुभगम्भावुकं वनम् । ( कुर्वाणा भीममध्येतद् वदाऽभ्यैः केन हेतुना ॥ ६७ ॥ हृदयमित्यादि - - केन हेतुना इदं वनमभ्यैः अभिगतासि वद कथय । अभिपूर्वादिणो लङ् । मध्यमपुरुषैकवचनम् | 'आडजादीनाम् ||६|४|७२। आटश्च ।६।१।९०।' इति वृद्धि: । हृदयं गच्छति या मूर्तिः शरीरमत्यन्तसौ- न्दर्यात् । 'गमञ्च | ३|२|४७|' इति खच् | सा एवंविधा मूर्तिर्यस्याः सा त्वं भीममप्येतद्वनं सुभगम्भावुकं सर्वस्यैवाप्रियं प्रियं कुर्वाणा । असुभगं भूत्वः सुभगं भवतीति 'कर्तारै भुवः खिष्णुच्कयौ |३|२|५७|' इति खुकञ् ||६७|| सुकृतं प्रियकारी त्वं कं रहस्युपतिष्ठसे । पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेषु कः ॥ ६८ ॥ सुकृतमित्यादि- सुकृतं पुण्यकारिणं शोभनं कृतवानिति 'सुकर्मपापमन्त्रपु- ण्येषु कृञः | ३|१|८८।' इति क्विप् । कं रहसि विजने त्वमुपतिष्ठसे उपश्लिष्यसि । संगतकरणे तङ् । प्रियकारी अनुकूलवर्तिनी सती । प्रियमनुकूलं करोतीति ‘क्षेमप्रियमद्रेऽण् च |३|२|४४ | इति अण | 'टिड्ढाणञ्यसज्दनमात्र चूतयपू ठक्ठञ्कञ्क्करपः ।४।१।१५ |' इति ङीप् | पुण्यकृत् कृतपुण्यः | तस्य पूर्ववत् क्किप् । चाटुकारः प्रियवाक्यकरः । न शब्दश्लोककलहगाथावैर चाटु- सूत्रमन्त्रपदेषु ||३||२|२३|' इति टे प्रतिषिद्धेऽणेव भवति । ईदृशस्ते किङ्करः दासः । 'दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबालभ- । क्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाहयत्तद्वनुररुषु |३|२|२१|' इतिट: । 'किंय- तद्ब्रहुषु कृष्ञोऽज्विधानम्' इति तत्स्त्रीविषये द्रष्टव्यम् । सुरतेषु शोभनरतेषु ।।