पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ पञ्चमः- (१०६) भट्टिकाव्ये जयमङ्गलासमै ते संदिदर्शयिषुः साम निजुहूषुः क्षपाटताम् । चङ्क्रमावान् समागत्य सीतामूचे 'सुखाभव' ॥ ६४॥ संदीत्यादि — इहा भयं मा भूदिति साम सान्त्वं संदिदर्शयिषुः संदर्शयि तुमिच्छुः । वदन बह्वङ्गुलिस्फोटमिति योज्यम् । दृशेर्ण्यन्तसन्नन्तत्वे रूपम् | क्षपाटतां राक्षसत्वं निजुहूपुर्निहोतुमिच्छुः । धारयन्मस्करित्रंत मिति योज्यम् । ह्णोतेः ‘अज्झनगमां सनि |६|४|१६|| इतिः | कुटिलं क्रमणं चङ्क्रमा E क्रमे ' नित्यं कौटिल्ये गतौ |३||१|२३|| इति । ‘नुगतोऽनुनासिका- न्तस्य |७|४|८५|' इत्यभ्यासस्य नुकू । 'अ प्रत्ययात् |३|३|१०२।' इत्य- कारः । 'अतो लोपः ||६|४|४८' । 'यस्य हलः |६|४|४९।' टापू । सा यस्यास्ति स चंक्रमावान् । कुटिलगतिमाँनित्यर्थः । समागत्य ढौकित्वा । सीतामूचे । किमित्याह-सुखाभवेति अनुकूला भवेत्यर्थः । यदहं प्रार्थये तत्र प्रतिकूला न भवेति भावः । 'सुखप्रियादानुलोम्ये |५|४||६३ || इति कृभ्व- स्तियोगे गडाच् ॥ ६४ ॥ अथ द्वाभ्यां युग्मम् सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम् । कान्ति कान्त्या सदातन्या हेपयन्ती शुचिस्मिता ॥ ६५ ॥ सायमित्यादि — का त्वमिति वक्ष्यमाणेन सम्बन्धः | सायं दिनावसानं तत्र भवां कान्तिम् । यदा षोऽन्तकर्मणीत्येतस्मात् घञप्रत्ययान्तः तदा 'सायं-- चिरंप्राह्णेप्रगेऽव्ययेभ्यष्टयुटयुलौ तु च |४|३|२३| इति मकारा- न्तत्वं च निपात्यते । यदा सायंशब्दो मकारान्तः तदाप्यव्ययत्वादेव प्रत्य- यागमौ स्याताम् । कस्येत्यपेक्षायां तिथिप्रण्यः चन्द्रमसः पञ्चदश कला: तासां वृद्धिहासाभ्यां पञ्चदश तिथी: प्रणयति प्रवर्तयति । 'सत्सूद्विषद्रुह- दुहृयुजविद॒द्भिच्छिदजिनीराजामुपसर्गेऽपि विप् |३|२|६|| इति कि । ‘उपसर्गादसमासेऽपि णोपदेशस्य ||४|१४|' इति त्वम् । ‘एरनेकाचः- |६|४|८२ | इत्यादिना यणादेशः । पङ्कजानां च कान्ति कीदृशीं दिवातनीं दिवा- भवाम् । कान्त्या त्वदीयया सदातन्या सदाभवया हेपयन्ती लज्जयन्ती | दिवातन्या: सायन्तन्याश्च सदाभवत्वात् । जिते: 'अर्तिहीब्लीक्नुियी क्ष्माय्यातां पुणौ | ७|३|३५|' इति णौ पुक् | शुचिस्मिता शुभ्रहासा ||६५ || का त्वमेकाकिनी भीरु ! निरन्वयजने वने | क्षुध्यन्तोऽप्यघसन् व्यालास्त्वामपालां कथं न वा ॥ ६६ ॥ A