पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१०५) ददादेशः । शिखा अस्यास्तीति शिखी परिव्राजकः । बाह्लादित्वादिनिः । जञ्जपूकः पापाशयत्वात् गर्हितं जपतीति । 'लुपसदचरजपजभदह्रदशगृभ्यो. भावगर्हायाम् |३|१|२४ ।' इति यङ् । 'जपजभ- |७|४|८६ |' इत्यभ्यासस्य नुक् । 'यज- जपदशां यङः । ३ । २ । १६६ ।' इत्यूकः । अक्षमालावान् अक्षसूत्रयुक्तः । संसर्गे मतुप् । धारयतीति धारयः । 'अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजि- चीतसातिसाहिभ्यश्च । ३ । १ । १३८ ।' इतिशः । कस्य मृदलाबुनः । 'ननि लम्बेर्नलोपश्च' इत्यौणादिक ऊकारे प्रत्ययें अलाबूः | तस्य विकारः फलमिति ‘ओरञ् । ४ । ३ । १३९ । । तस्य फले लुक्, नपुंसकहस्वत्वम् । मृत्पूर्ण - मलाबु इति मध्यमपदलोपी समासः । कृत्प्रयोगे कर्मणि षष्ठी । 'इकोऽचि विभक्तौ । ७ । १ । ७३ ।' इति नुम् ॥ ६१ ॥ कमण्डलुकपालेन शिरसा च सृजावता | 'संवत्र्य लाक्षिके वस्त्रे मात्राः सम्भाण्डच दण्डवान् ॥ ६२ ॥ 1.53 - कमेत्यादि -- कमण्डलुना कपालेन च 'जातिरप्राणिनाम् ।२।४६।१ इति द्वन्द्वैकवद्भावः । मृजावता निर्मलेन शिरसा च उपलक्षित इत्थम्भूते तृतीया। संवरूय परिधाय । 'वस्त्रात्समाच्छादने' इति' 'मुण्डमिश्रलक्ष्णलवणव्रत- वस्त्र हलकलकृततूस्तेभ्यो णिच् । ३ । १ । २१ ।। इति णिच् । लाक्षिके वस्त्रे । लाक्षया रक्ते । 'लाक्षा रोचनात्- |४|२|२|' इति ठकू । मात्राः कमण्डल्वादि- कं सम्भाण्डव समाचित्य राशीकृत्येत्यर्थः । 'भाण्डात् समाचयने इति 'पुच्छभाण्डचीवराण्णि |३२|१||२०|| इति णिङ् । दण्डवान् गृहीतदण्डः । संसर्गे मतुपू ।। ६२ ॥ अधीयन्नात्मविद् विद्यां धारयन् मस्करिव्रतम् । वदन् बढङ्गुलिस्फोट भ्रूक्षेपं च विलोकयन् ॥ ६३ ॥ - अधीत्यादि — मा कुरुत कर्माणि शान्तिर्व: श्रेयसीत्येवं घोषयन्ति ये ते मस्करिणः परिव्राजकाः। तेषां व्रतमकृच्छ्रमसौ धारयन् । 'मस्करमस्करि- णौ । ६।१।१५४।' इत्यादिना परिव्राजके सुटू । आत्मविदां योगिनाम् । विद्या- मुपनिषद्मघीयन् जपन् ' इङ् धार्यो: शत्रकृच्छ्रिणि |३|२|१३०११ इतीङो धारेश्च अकृच्छ्रवाते कर्तरि शतृप्रत्ययः । अन्तरा बहु प्रभूतं वदन् | अंगुलि स्फोटं पुनः पुनः स्फोटिकान्दत्वा भ्रूक्षेपं च विलोकयन् ध्रुवावुत्क्षिप्योत्क्षि- प्य विलोकयन् । उभयत्रापि ' स्वाङ्गेऽध्रुवे | ३ | ४ | ५४|' इति णमुल् ॥ ६३ ॥ "