पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

₹( १०४) भट्टिकाव्ये जयमङ्गलासमेते- नियोगे वा लिङ । पूर्ववदात्मनेपदम् । तस्मान्मा स्म सैषोः मा भूर्भीता। 'स्मोत्तरे लङ् च ।३।३।१७६।' इति चकारात् लुङ् । सिचि वृद्धिः । त्वया अद्यैव अकृतार्थः पूर्णमनोरथः पतिर्द्रक्ष्यते । दृशेः कर्मणि लट् ।। ५८ ।। यायास्त्वमिति कामो मे गन्तुमुत्सहसे न च । इच्छु: कामयितुं त्वं मामित्यसौ जगदे तथा ॥ ५९ ॥ याया इत्यादि- तदन्वेषणाय यायास्त्वमिति कामोऽभिलाषः । 'कामप्रवे- दुनेऽचिति |३|३|१५३' इत्य कच्चित्युपपदे लिङ् । न च गन्तुमुत्सहसे । ‘श कधृषज्ञाग्लाघटरभलभक्रमसहा स्त्यिर्येषु तुमुन् । ३|४|६५ | इति तुमुन् । तस्मान्नूनं मां कामयितुमिच्छुः एषणशील: 'समानकर्तृकेषु तुमुन् |३||३||१५८।' 'विन्दुरिच्छुः |३|२|१६९|' इति निपातनात्साधुः । इत्येवमसौ लक्ष्मणो जगदे -मंदितस्तया सीतया ॥ ५९ ॥ मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः | निरगात् शत्रुहस्तं त्वं यास्यसीति शपन्दशी || ६० ।। मृषोद्यमित्यादि--मां [ पञ्चमः - - कामयितुमिच्छुरित्येतन्मृषोद्यम् मृषावादम् । 'राजसूयसूर्यसृपोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः | ३११ | ११४ | इत्यनेन भावे क्यप् । यजादित्वात् सम्प्रसारणम् । प्रवदन्तीं तां सीताम् । रघूत्तमो लक्ष्मणः शपन् शत्रुहस्तं त्वं यास्यसीति शापं प्रयच्छन् भौवादिकोऽत्र शपिर्न देवादि- कः । निरगात् निर्गतः । तस्मादुटजादित्यर्थात् । कथं मृषोद्यमित्याह - - वशी वशनं वशः इन्द्रियसंयमनम् । 'वशिरण्योरुपसंख्यानम्' इत्यप् | स यस्य स वशी जितेन्द्रियः । अत एव सत्यवद्यः | अवितथवादी | शत्रुहस्तं यास्यसीति सत्यं वदतीति ' कृत्यल्युटो बहुलम् ||३|३|११३|| इति कर्तरि यत् । 'वदः सुपि क्यप् च ।३।१ । १०६ ।। इति चकाराद्यत् । भावे वा यतं विधायाच् अर्शआदित्वात् || ६० ।। अथ चतुर्भिः कलापकम् । . गते तस्मिञ्जलशुचिः शुद्धदन रावणः शिखी । जञ्जपूकोऽक्षमालावान् धारयो मृदुलाबुनः ॥ ६१ ॥ गत इत्यादि--तस्मिन् लक्ष्मणे गते सति रावणः सीतामूच इति वक्ष्यमाणेन सम्बन्धः। कीदृशः जलशुचिः स्नात इत्यर्थः । शुद्धदन् निर्मलदशन: शुद्धा दन्ता यस्य 'अप्रान्तशुद्धशुभवृषवराहेभ्यश्च । ५ । ४ । १४५ ।' इत्यनेन दन्तस्य