सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगः ] प्रकीर्णकाण्डम् । (१०३). आप्यान स्कन्धकण्ठांसं रुषितं सहितुं रणे । - • प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु कः क्षमः ॥ ५६ ॥ आप्येत्यादि – 'प्यैङ् वृद्धौ ।' अस्मादाङ्पूर्वात् 'संयोगादेरातो धातोर्यण्वतः|८|- २१४३ |' इति निष्ठातो नः | 'ओप्यायी वृद्धौ' इत्यस्य वा रूपम् । 'ओदितश्च ८२॥४५॥ इति निष्ठानत्वम् | पीभावस्तु आङ्पूर्वम्यः त्वन्धूधसोरिति वचनात् इह न भवति आप्यानस्कन्ध इति । आप्यानं स्थूलं स्कन्धकण्ठांसं यस्य काकु -- त्स्थस्य । बाहुशिखरमंसः | तस्य पश्चिमो भागः स्कन्धः । तं रुषितं क्रुद्धम् । रण संग्रामे सहितुं हे भी कातरे कः क्षमः शक्तः । अपि तु न कोऽपीत्यर्थः । क्षमेः शक्नोत्यर्थत्वात् तदुपपदे 'शक'वृषज्ञाग्लाघटरभलभक्रमसहाहा॑स्त्यर्थेषु तुमुन् | ३ | ४||६५|' इति तुमुन् । 'तीषसहलुभरुषरिष: । ७।२।४८|' इति वेट् । ककु- त्स्थस्यापत्यं काकुत्स्थः । 'शिवादिभ्योऽण् ||४|१|११२ ।' कस्मान्न क्षम इत्याह- प्रोर्णुवन्तं दिशो बाणैः । यतः सर्वाः दिश: बाणैः छादयन्तम् । ऊर्णोतेः शतरि’ 'उवङ् । क्षमत इति क्षमः | पचाद्यच् ॥ ५६ ॥ 6 देहं बिभ्रक्षुरस्त्राग्नौ मृगः प्राणैदिँदेविषन् । ज्याघुष्टकठिनाऽङ्गुष्ठं राममायान्मुमूर्षया ॥ ५७ ॥ देहमित्यादि-एष मृगो राममायात् आगतवान् । यातेर्लङि रूपम् । किमर्थ देहं शरीरम् अस्त्रामौ अस्त्रे अग्नाविव । विभ्रक्षुः भ्रष्टुमिच्छुः । भ्रस्जेः 'सनी- वन्तर्धभ्रस्जदम्भुश्रित्यूर्णभरज्ञपिसनाम्।७।२।४९।' इत्यत्रेडभावपक्षे 'स्को: संयो- गाद्योरन्ते च।८।२।२९।' इत्यनेन सलोपे पत्वकुत्वयोश्च रूपम् । प्राणैर्दिदेविषन् क्रीडितुमिच्छन्। ‘दिवः कर्म च |१|४|४३ |' इति चकारात् करणसंज्ञा | 'सनी- वन्तर्धभ्रस्जदम्भुश्रिस्वृयभरज्ञपिसनाम् । ७ ।२ । ४९ । इतीपक्षे रूपम्। ज्यया गुणैन घुष्टौ निघृष्टौ अत एव कठिनौ अङ्गुष्ठौ सव्यापसव्यकर्षणाद्यस्य ।' बुषिरविशब्द |७|२|२३|| इति निष्ठायामनिट् । मुमूर्षया मर्तुमिच्छया । मृङः लान 'उदोष्ठ्यपूर्वस्य । ७। १ । १०२ ।' इत्युत्वम् । 'अ प्रत्ययात् ।३।३।१०२' ।। ५७ ॥ शत्रून् भीषयमाणं तं रामं विस्मापयेत कः । मा स्म भैषीस्त्वयाऽद्यैव कृतार्थो द्रक्ष्यते पतिः ॥ ५८ ॥ शत्रूनित्यादि -- तं रामं शत्रून् भीषयमाणं भीतान् कुर्वाणम् ।' भियो हेतु- भये पुक् |७|३|४०|' । 'भीम्योर्हेतुभये | १|३|६८|' इति तङ् | विस्मापयेत कः क्षुभितचित्तं कुर्यात् । नैवेत्यर्थः । 'नित्यं स्मयतेः ।६।१।५७ ।' इति णावा- त्वम् । 'अर्तिहीन्लीक्नूियक्ष्माय्यातां पुणौ ७|३|३६ |' इति पुक् । निमन्त्रणें