सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०० ) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चमः --- त्राभिमुखं गच्छामीत्यर्थः । अनुनयन् अनुकूलयन् । किमर्थं जिजीविषुः जीवि तुमिच्छुः ॥ ४६ ॥ हरामि रामसौमित्री मृगो भूत्वा मृगद्युवौ । उद्योगमभ्यमित्रीणो यथेष्टं त्वं च संतनु ॥ ४७ ॥ हरेत्यादि - अहं मृगो भूत्वा रामसौमित्री हरामि । देशान्तरं प्रापयामि । आखेटकाभिरतत्वात् । यदाह मृगधुवौ मृगव्यत इति क्विप् । 'च्छो: शुडनु- नासिके च |६||४|१९|' इति चकारात् कौ च ऊठ् । यणादेशः । उवङ् । मृगद्युताविति पाठान्तरम् | तंत्र 'द्यु अभिगमने' मृगान् द्यौति अभिगच्छतीति किप् । त्वं च यथेष्टं यथारुचि । तमुद्योगं संतनु विस्तारं कुर्वित्यर्थः । तनोते- लटि ‘उतश्च प्रत्ययादसंयोगपूर्वात् |६|४|१०६।' इति हेर्लुक् । अभ्यमित्रीण: अमित्राभिमुखमलंगामी ।' अभ्यमित्राच्छ च |५|२|१७| चेति खः ॥ ४७ ॥ चकाराद्यत्खौ ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृगः ॥ यथामुखीन: सीतायाः पुष्लुवे बहु लोभयन् ॥ ४८ ।। तत इत्यादि - उक्तानन्तरमसौ मारीचो मायामृगीभूतः सन् हेमरत्नमय- रत्नं चहेम चेति विगृह्य । 'मयदैतयोर्भाषायामभक्ष्यच्छादयोः |४|३|१४३॥ इति विकारे मयट् । निर्मलत्वात् । सीताया अग्रतो यथामुखीन: प्रतिबिम्बाश्र य इव भूत्वा पुप्लुवे भ्रमति स्म । इवशब्दलोपो द्रष्टव्यः । 'यथामुखसंमुखस्य दर्शनः खः । ५ । २ । ६ ।' बहु लोभयन् सुष्ठु स्पृहां जनयन् । यतश्चित्रीयं- माण: आश्चर्य भवन् । हेमरत्नमयत्वात् । 'नमोवरिवश्चित्रङः क्यच्।३।१।१९। इति क्यच् । ‘ चित्रङ् आश्चर्ये' । ङकारस्यात्मनेपदार्थत्वात् शानच् । अवयवकृतं लिङ्गं समुदायस्य भवतीति ।। ४८ ।। Te तेनाऽदुषयद्रामं मृगेण मृगलोचना ॥ मौथली विपुलोरस्कं प्राबुवूषुर्मृगाऽजिनम् ॥ ४९ ॥ तेनेत्यादि तेन मृगेण मैथिली सीता राममदुद्यषयत् क्रीडितुमिच्छन्तं प्रयु क्वती गृह्यतामयमिति । इवन्तस्य दिवेः 'सनीवन्तर्धभ्रस्जदम्भुश्रिपूर्णभरज्ञ- पिसनाम् । ७ । २ । ४९ ।' इति यदा नेट् तदा ' च्छोः शूडनुनासिके च । ६ ॥ |४|१९|' द्विवचनम् । तस्मात् सन्नन्तण्यन्तात् लाङ रूपम् । मृगलोचना मृग लोचनेइव लोचने यस्याः । मध्यमपदलोपी समासः । विपुलोर स्कं विस्तीर्णवक्षस्थ- लम् । 'उरःप्रभृतिभ्यः कप् |५|४|१५१ । किमर्थमदुवषयत् मृगाजिनं मृगचर्म