पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१०१) प्रावुवूर्षुः प्रावरीतुमिच्छुः । प्राङ्पूर्वस्य 'इट् सनि वा |७|२|४||' इत्यान 'अन्झनगमां सनि | ६|४|१६|' इति दीर्घः । : 'उदोष्टयपूर्वस्य |७|१२|१०२० इत्युत्वम् । रपरत्वम् । 'वरुपधाया दीर्घ इकः |८|२|७६ || द्विवचनम् । 'इणकोः |८|३||५७|' इति षत्वम् । रेफस्येणग्रहणेन ग्रहणाद्दन्त्योष्ठयोऽपि वकार ओष्ठयग्रहणेन गृह्यते ॥ ४९ ॥ योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः । मृगस्यानुपदी रामो जगाम गजविक्रमः ॥ ५० ॥ योगेत्यादि -- ततो दुश्रूषानन्तरं रामो जगाम । योगक्षेमौ शरीरस्थितिपा- लने करोतीति 'को हेतुताच्छील्थानुलोम्येषु |३|२|२०|| इति तौटः । ग्रहणवता तदन्तविधेरभावात् 'क्षेमप्रियमद्रेऽण् च |३||४|| इत्य न भवतः । सीतायाः स्थितिपालनहेतुभूतं लक्ष्मणं कृत्वा रामः मृगस्यानुपदी अन्वेष्टा 'अनुपद्यन्वेष्टा |५|२|१०|| इति निपातनात् साधुः । गजविक्रमः । गजगमनमिव गमनं यस्येत्यर्थः ॥ ५० ॥ स्थायं स्थायं क्वचिद्यान्तं ऋान्त्वा क्रान्त्वा स्थितं क्वचित् । वीक्षमाणो मृगं रामश्चित्रवृत्तिं विसिष्मिये ॥ ५१ ॥ स्थायमित्यादि–मृगं चित्रवृत्तिमद्भुतशरीरचेष्टं वीक्षमाणो रामो विसि - ष्मिये विस्मितः । ष्मिङो ङित्त्वादात्मनेपदम् । षोपदेशत्वाच्चाभ्यासण: परस्य सस्य षः । चित्रवृत्तितां दर्शयन्नाह - स्थायं स्थायं स्थित्वा स्थित्वा क्वचित् प्रदेशे यान्तम् । क्रान्त्वा क्रान्त्वा क्वचित्प्रदेशे उत्प्लुत्योत्प्लुत्य स्थितम् । आभीक्ष्ण्ये णमुलि क्त्वाणमुलौ द्विर्वचनं च ॥ ५१ ॥ चिरं क्लिशित्वा मर्माविद् रामो विलुभितप्लवम् । शब्दायमानमव्यात्सीद भयदं क्षणदाचरम् ॥ ५२ ॥ चिरमित्यादि – रामः क्षणदाचरं मारीचमव्यात्सीत् विद्धवान् । व्यर्ल- ङि हलन्तलक्षणा वृद्धिः । मर्माविद्राम: मर्माणि विध्यतीति क्विप् । 'नहिवृति- वृषिव्यधिरुचिसहितनिषु की |६|३|११६ | इति पूर्वपदस्य दीर्घत्वम् । चिरं क्लिशित्वा महान्तं कालमायस्य अत्यन्तसंयोगे द्वितीया । 'क्लिश: क्त्वा- निष्ठयोः |७|२|५०|' इति विकल्पेनेट् । तत्र 'रलो व्युपधाद्धलादेः सञ्च |१|२|२६|' इति कित्त्वविकल्पे 'मृडमृदगुधकुषलिशवदवशः |१|२|७|' इति कित्त्वम् । विलुभितप्लवं व्याकुलितगमनम् । 'लुभो विमोहने |७१२१५४ १ इतीट् । विमोहनं व्याकुलीकरणम् | शब्दायमानं शब्दं कुर्वाणम् । 'शब्दवैर-