पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकाण्डम् । (९९) सर्गः ] वनेत्यादि -- वने तापसो वनतापसः | कुत्सायां कन् । तस्मिन् वनतापस के मे सावज्ञत्वाद्गलितादरौ विपक्षे किमयं करिष्यतीत्यश्रद्धयैव योधितवन्तौ खरदूषणौ वीरौ यदि मम्रतुः मृतौ, को दोषः किं चित्रम् | ‘म्रियतेर्लुङ्‌लिङोश्च |१|३|६१ | इति नियमात् लिट्यात्मनेपदं न भवति ॥ ४३ ॥ त्वं च भीरुः सुदुर्बुद्धे ! नित्यं शरणकाम्यसि । गुणांश्चापहुषेऽस्माकं स्तौषि शत्रूंश्च नः सदा ॥ ४४ ॥ त्वं चेत्यादि- हे दुर्बुद्धे त्वं पुनः भीरुश्च भवसि । नित्यं शरणकाम्यसि । आत्मनोऽनिशं शरणमिच्छसि । आत्मेच्छायां काम्यच् । अस्माकं च सतो गुणानपहुषे अपनयति । 'हु अपनयने' आदादिकः । ङित्त्वात्त । शत्रूंश्च जोऽस्माकं स्तौषि । स्तौते: 'उतो वृद्धिलुकि हऴि |७|३१८९॥ ॥ ४४ ॥ शीर्षच्छेद्यमतोऽहं त्वा करोमि क्षितिवर्धनम् । कारयिष्यामि वा कृत्यं विजिघृक्षुर्वनौकसौ ॥ ४५ ॥ शीषैत्यादि-यत एवंविधस्त्वं दुष्टः अतोऽहम् । 'त्वामौ द्वितीयाया | ८१ १२३|' इत्याष्टमिकलक्षणेन त्वादेशः | शेषिच्छेद्यं शीर्षच्छेदाम् । 'शीर्षच्छेदाद्यत् १५।१।६५।' क्षितिवर्धनं करोमि । शिरश्छित्त्वा व्यापादयामीत्यर्थः । अथवा कृत्यं करणीयम् । 'विभाषा कृवृषोः | ३|१|१२०|' इति क्यप् | कारयिष्यामि । 'हृ- कोरन्यतरस्याम् |१|४|५३|' इति द्विकर्मकता | विजिघृक्षुः विग्रहीतुमिच्छुः । 'सनि ग्रहगुहोश्च |७|२|१२|' इतीप्रतिषेधः । 'रुदविदमुषप्रहिस्वपिप्रच्छः संश्च | १|२||८|' इति सनः कित्त्वे 'ग्रहिज्यावयित्र्यविवष्टिीवचीतवृश्च तिपृच्छति- भृजतीनां डिति च । ६ | १ | १६ |' इति संप्रसारणम् । 'हो ढः |८|२|३१|| १ | " एकाचो बशो भष् झपन्तस्य स्त्रोः | ८|२||३७।' | 'ढोः कः सि |८|२|४१ । ' वनौ- कसौ रामलक्ष्मणौ । वनमाको गृहं ययोः । 'न लोकाव्ययनिष्ठाखलथेतूनाम् |२|३|६९।' इति कर्मणिषष्ठयाः प्रतिषेधः ॥ ४५ ॥ तमुद्यतनिशाताऽसिं प्रत्युवाच जिजीविषुः | मारीचोऽनुनयंस्त्रासादभ्यमित्र्यो भवामि ते ॥ ४६ ॥ तमित्यादि -- तं रावणं एवमुक्तवन्तम् । निशात इति 'शाच्छोरन्यतरस्याम् १७|४|४१।' इतीत्वाभावपक्षे रूपम् | उद्यतः उत्थापितः निशातस्तीक्ष्गोऽसियन तं माचिस्वासात् प्रत्युवाच वचनमुकत्रान् । अभ्यमित्र्यो भत्रामि ते । अमित्रस्याभिनुखमभ्यमित्र्यमाभिमुख्येऽत्र्ययोभावः । अभ्यमित्रमलंगामीत्य-- स्मिन्नर्थे 'अभ्यमित्राञ्छ च |५|२|१७|' इति चकाराद्यत्वा चेति यत् । त्वदमि