पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९६) भट्टिकाव्ये जयमङ्गलासमेते- यमाSSस्यहश्वरी तस्य ताडका वोत्त विक्रमम् । शूरम्मन्यो रणाच्चाऽहं निरस्तः सिंहनदिना ॥ ३४ ॥ यमेत्यादि--तस्य रामस्य विक्रमं ताडका वेत्ति ज्ञातवती । 'वर्तमानसा- मीप्ये वर्त्तमानवद्वा |३| ३ | १३१|' इति भूते लट् । कीदृशी यमास्यदृश्वरी । तच्छरताडिता यममुखं दृष्टवती मृतत्यर्थ: । शेन |३|२|९४ ।' 'वनो र च |४|१||७|' इति ङीब्रेफौ । अहमपि शूरम्मन्यः शूरमात्मानं मन्यमानः 'आत्ममाने खच | ३|२|८३|' सिंहनर्दिना रामेण सिंह इव नतीति 'कर्तर्यु - पमाने ।३।२।७९|' इति णिनि: । रणान्निरस्त: बहिष्कृत इत्यर्थः ॥ ३४ ॥ · न त्वं तेनाऽन्वभाविष्ठा नाऽन्वभावि त्वयाऽप्यसौ । अनुभूतो मया चाऽसौ तेन चाऽन्वभावष्यहम् ॥ ३५ ॥ [ पञ्चमः न त्वमित्यादि -- तेन रामेण त्वं नान्वभाविष्ठाः । त्वमनेन नानुभूतः कर्मणि लुङ् । थासि ‘स्यसिच्सीयुट्तासिषु भाव कर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।६।४।६२।' इति चिण्वदि टुत्वम् । नान्वभावि त्वयाऽ नानुभूतः । येनैवमुच्यते । अत्र 'चिणूभावकर्मणोः | ३ । १ । ६६ ।' इति चिण् । अनुभूतो मया चासौ । चशब्दः पुनरित्ययें । मया पुनरसावनुभूतः न शक्यो जेतुमिति । तेन रामेण चान्वभविष्यहमनुभूतोऽहम् । तेन सह यो- द्धुमक्षम इति । अत्र चिण्वद्भावो न कृतः किन्तु लुङि· उत्तमपुरुषैकवचने वला दिलक्षण इट् | तेन वृद्धथभावात् गुण एवेति ॥ ३५ ॥ अध्यङ् शस्त्रभृतां रामो न्यञ्चस्तं प्राप्य मद्विधाः । - स कन्याशुल्कमभनङ् मिथिलायां मखे धनुः ॥ ३६ ॥ अध्याङित्यादि - शस्त्रभृतां मध्ये रामोऽध्यङ् अधिकः । अध्यञ्चत्याधिक्ये न वर्तत इति 'ऋत्विग्दधृकुस्रग्दि गुणिगञ्चुयुजिक्रुचां च | ३|२|५९|| इति किन् तस्मिन् लुप्ते अनुनासिकलोपे 'उगिदचां सर्वनामस्थाने धातोः । ७।१ । ७७।' इति नुम् । तस्यानुखारपरसवर्णत्वे कृते च हल्या दिसंयोगान्तलोपौ । नकारस्य 'क्विन्प्रत्ययस्य कुः । ८ । २ । ६२ ।। इति कुत्वेन ङकारः । तं तादृशं प्राप्य मद्विधा न्यच्चो हीनाः । निशब्दोऽत्राधोभावे वर्तते । न्यञ्च इति पूर्ववत् । क्विन् । अनुनासिकलापः । नुम् । अल्लोपो नास्ति अहवात् कुत्वं च नास्ति अपदसंज्ञत्वात् । यो मिथिलायां महद्धनुरभनक् भग्नवान् सोऽस्मादपि कार- णात् शस्त्रभृतामध्यङ् । भञ्जेर्लङि 'नान्नलोपः ||६|४|२३|| हादिलोपः । कुत्वं च । कन्याशुल्कं कन्यामूल्यम् । तद्धि यो रौद्रं धनुरारोपितगुणं करोति अस्मै कन्यादी मूल्यांकृत्य स्थापितम् ॥ ३६ ॥