पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । सम्पत्य तत्सनीडेऽसौ तं वृत्तान्तमशिश्रवत् । त्रस्तुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः ॥ ३१ ॥ ( ९५ ) सम्पत्येत्यादि -- असौ दशग्रीवः तत्सनीडे मारीचस्य समीपे । अत्रापि सह नीडेनेति व्युत्पत्तिमात्रम् | सम्पत्य यात्वा । तं वृत्तान्तम् शूर्पनखाकथि- तमशिश्रवत् श्रावितवान् । शृणोतेर्ण्यन्तस्य लुङि रूपम् । अथ तेन मारीचेन श्रुता त्रस्तुना त्रसनशीलेन दशाननः अगादि उक्तः । कर्मणि लुङ् ॥ ३१ ॥ अन्तर्धत्स्व रघुव्याघ्रात्तस्मात्त्वं राक्षसेश्वर ? । यो रणे दुरुपस्थानो हस्तरोधं दधद्धनुः ॥ ३२ ॥ अन्तरित्यादि – हे राक्षसेश्वर त्वं तस्माद्रघुव्याघ्रादन्तर्धत्स्त्र अन्तर्हितो भव व्यवहितो भवेति यावत् । दधातेर्लोटि 'आभ्यस्तयोरातः ।६ । ४ । ११२ इत्याकारलोपः । अभ्यासस्य • दूधस्तथोश्च | ८|२||३८|' इति भष्भावः । 'अन्तधै। येनादर्शनमिच्छति |१|४|२८|' इत्यपदानसंज्ञा । यस्मात् स रामः रणे दुरुपस्थानः दुःखेन उपस्थीयते उपगम्यत इति । 'आतो युच् |३|३|१२५|'यतो हस्तरोघं दधद्धनुः हस्तेन रुध्वा सदैव यो धनुर्धत्ते स कथं दुरुपस्थानो न भवति । हस्तशब्दे तृतीयान्त उपपदे 'सप्तम्यां चोपपीडरुधकर्षः |३।४।४९।' इति णमुल । चकारेण तृतीयाया: समुच्चितत्वात् । 'तृतीया प्रभृतीन्यन्यतरस्या- म् |२|२|२१|' इति समासः ॥ ३२ ॥ tu तदेव दुरुपस्थानत्वं स्फुटयन्नाह - भवन्तं कार्तवीर्यो यो हीनसन्धिमचीकरत् । जिगाय तस्य हन्तारं स रामः सार्वलौकिकम् ॥ ३३ ॥ भवन्तमित्यादि - यः कार्तवीर्यः कृतवीर्यस्थापत्यं सहस्रबाहुःभवन्तं हीनसन्धि- मचीकरत् । हनिन दुर्बलेन यः सन्धिः तं भवन्तं कारितवान् | तेन हीनत्वम् । बलान्निर्जित्य कारित इति दुरुपस्थानत्वमुक्तम् । 'इक्रोरन्यतरस्याम् । १ । ४। ५३|' इति द्विकर्मकता । तस्य कार्तवीर्यस्य यो हन्ता परशुरामः । कृत्प्रयोगे कर्मणि पष्ठी । तेन हि तस्याग्निहोत्रधेनुमपहृत्य गच्छतः परशुना बाहुसहस्रं छिन्नम् । तस्य हन्तारं स रामो जिगाय जितवान् । जयतेर्लिंटि धातुजकारस्य ‘सँल्लिटोर्जेः । ७ । ३ । ५७ ।' इति कुत्वम् । सार्वलौकिकं सर्वलोके विदितम् । 'लोकसर्वलोकाभ्यां ठञ् । ५ । १ । ४४ ।' 'अनुशतिकादीनां च |७|३|२०| इत्युभयपदवृद्धिः। सार्वलौकिक इति पाठान्तरम् । अत्र राम इति योज्यम् ॥३३॥