पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चम: --- कृत्वेत्यादि-एष्वालीयत इत्यालानम् । अधिकरणे ल्युट् । 'विभाषा लीयतेः । ६ । १ । ५१ ।' इत्यात्वम् । लङ्कादुमा आलानानि यस्यैरावता- ख्यस्य गजस्य तं कृत्वा । नतं नम्रमुखम् । तृणमिव मत्वा । सोऽहमत्यजं त्यक्तवान् । बन्धनेऽनुपयोगित्वात् प्रयोजनाभावात् ॥ २६ ॥ आहोपुरुषिकां पश्य मम सद्रनकान्तिभिः । ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा ॥ २७ ॥ आहो इत्यादि-अहोपुरुषस्य भावः । मनोज्ञादित्वादुञ् । आहोपुरुषिका कार्यसिद्धावपि तत्साधने वृत्तिः । तां मम शूर्पणखे पश्य । सद्रत्नकान्तिभिः ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः पूर्णचन्द्रस्य सन्निधिः सदा सन्निधानम्, न पुनस्तेन कृत्यं रत्नप्रभाभिरेव तत्कृत्यस्य कृतत्वात् ॥ २७ ॥ (९४) MESS हतरत्नश्च्युतोद्योगो रक्षोभ्यः करदो दिवि । पूतऋतायीमभ्येति सत्रपः किं न गोत्रभित् ॥ २८ ॥ हृतेत्यादि—हृतोच्चैः श्रवआदिरत्नो गोत्रभिदिन्द्रः । अत एव च्युतोद्योगः । दिवि वर्तमानोऽपि रक्षोभ्यः करदः । राजग्राह्यं वित्तं प्रयच्छन् । पूततायीं शचीं 'पूतऋतोरै च । ४ । १ । ३६ ।। इति ङीष् । पुंयोगादाख्यायामिति । सत्रपः सव्रीडः । किं नाभ्येति न ढौकते ॥ २७ ॥ अतुल्यमहसा सार्धं रामेण मम विग्रहः । त्रपाकरस्तथाप्येष यतिष्ये तद्विनिग्रहे ॥ २९ ॥ अतुल्येत्यादि -- तदेवंविधस्य मम अतुल्यमहसा अतुल्यतेजसा रामेण सह विग्रहस्रपाकरः । 'कुञो हेतुताच्छील्यानुलोम्येषु । ३ । २ । २० ।। इति टः । तथापि त्वत्प्रार्थनया । एष च यतिष्ये तद्विनिग्रहे विविधनिग्रहविषये तस्य यतिष्ये यत्नं करिष्यामि । 'वर्तमानसामीप्ये वर्तमानवद्वा | ३ | ३ | २१ । इति विकल्पेन लटो विधानात् ऌडुदाहृतः ॥ २८ ॥ उत्पत्य खं दशग्रीवो मनोयाथी शिताऽस्त्रभृत् । समुद्रसविधाऽऽवासं मारीचं प्रति चक्रमे ॥ ३० ॥ उत्पत्येत्यादि — उक्त्वैवं खमाकाशमुत्पत्य मारीचं प्रति चक्रमे । यत्र मारा- चो राक्षसस्तत्र गत इत्यर्थ: । 'अनुप |||३|४३ || इति क्रमेस्त | मनोवदाशु यातुं शीलमस्येति । ' कर्ता |३|२|७९ | इति णिनिः । शितास्त्रभृत् गृहीततीक्ष्णचन्द्रहास: । समुद्रस्य सविधे समीपे आवासो यस्य मारीचस्य । सह विधेन सविधमिति व्युत्पत्तिमात्रं शब्दस्तत्समीपवाची ||३०||