पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । प्रत्यूचे राक्षसेन्द्रस्तामाश्वसिहि बिभेषि किम् | त्यज नक्तञ्चरि ! क्षोभं वाचाटे ! रावणो ह्यहम् ॥ २३ ॥ प्रत्यूच इत्यादि — राक्षसेन्द्रो रावणः । राक्षसी प्रत्यूचे । प्रतिवचनमुक्त- वान् । आश्वसिहि खेदं त्यज । ' रुदादिभ्यः सार्वधातुके । ७।३ । ७६ । इतीट् | बिभोषि किमर्थं तापसकात् । हे नक्तञ्चरि मद्विषये क्षोभं रोषं त्यज । वाचाटे बहुभाषिणि । 'आलजाटचौ बहुभाषिणि । ५ | २ | १२५ ।' यस्मा- द्रावणोऽहम् । अनेनात्मोत्कर्षमावेदयति ॥ २३ ॥ तमेव स्फुटयन्नाह -- मामुपास्त दिदृक्षावान् याष्टीकव्याहतो हरिः । 1 आज्ञालाभोन्मुखो दूरात् काऽक्षेणाऽनादरेक्षितः ॥ २४ ॥ मामित्यादि – मामुपास्त सेवितवान् | हरिरिन्द्रः । दिदृक्षावान् द्रष्टमिच्छा- वान् । आत्मदर्शनेच्छावानित्यर्थ: । दूरादेव याष्टोकैः वेत्रमाहिभिर्व्याहतोऽ- पसारितः । ' कर्तृकरणे कृता बहुलम् । २ । १ । ३२ ।' इति स० । यष्टिः प्रहरणमेषामिति ' शक्तियष्टयोरीकक्ं । ४ । ४ । ५९ ।' आज्ञालाभे किमाभ- धास्यतीत्युत्सुक उन्मुखः तत्परः । सप्तमीति योगविभागात् स० । अनादरेक्षितः अवज्ञाविलोकितः । काक्षेण कुदृष्ट्या ।' का पथ्यक्षयोः । ६ । ३ । १०४।१ इति कुशब्दस्य कादेशः । यदि तत्पुरुष इत्यनुवर्तते तदा कुत्सितमक्षमिति विग्रहः । अक्षशब्दस्येन्द्रियसामान्याभिधायित्वेऽपि ईक्षितशब्दोपपदत्वाच्च- क्षुषि वर्तते । अथ तत्पुरुष इति नानुवर्तते सामान्यनादेशस्तदा कुत्सितमक्षि यस्येति । ' बहुव्रीहौ सक्थ्यक्ष्णो: स्वाङ्गात् पच् । ५ । ४ । ११३ ।' इति षच् । काक्षेण मयेत्यर्थः ॥ २४ ॥ विरुग्णोदग्रधाराऽग्रः कुलिशो मम वक्षसि । अभिन्नं शतधाऽऽत्मानं मन्यते बलिनं बली ॥ २५ ॥ 5 विरुग्णेत्यादि - विरुग्णानि अवसन्नानि कुण्ठितानि उदग्राणि महान्ति धाराग्राणि यस्य स कुलिशो वज्रः मम वक्षसि पतितः सन् बली । आस्मान- मभिन्नं शतधा शतप्रकारम् । सङ्ख्याया विधार्थे धा । ५।३ । ४२ ।। वालनं मन्यते । अहो बलवानहं न येन शतधा भग्न इति । तस्य देवतारूपत्वात् बलमस्त्येव । आत्मानं वलिनं मन्यत इवेत्युत्प्रेक्षा ।। २५ ।। कृत्वा लङ्काद्रमाऽऽलानमहमैरावतं गजम् । बन्धनेऽनुपयोगित्वान् नतं तृणवदत्यजम् ॥ २६ ॥ 4