पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- सारोऽसाविन्द्रियाऽर्थानां यस्याऽसौ तस्य नन्दथुः । तल्पे कान्ताऽन्तरैः सार्धं मन्येऽहं धिङ् निमजथुम् ॥ २० ॥ सार इत्यादि — इन्द्रियार्थानां मध्ये सारोऽसौ दयिता इन्द्रियार्थः । रूपा- द्यतिशययोगात् । यस्यासौ संपद्यते तस्य नन्दथुः आनन्दश्चेतसः । तल्पे शय- नीये यस्य कान्तान्तरैरन्यस्त्रीभिः साधै निमज्जथुं शयनम् । सर्वत्र 'टितोऽथु- च् । ३ । ३ । ८९ ।' तस्य धिक् कुत्सितमहं मन्ये । 'उभसर्वतसो:--' इत्या दिना धिग्योगे द्वितीया । तया साधै शोभनमित्यर्थादुक्तं भवति ॥ २० ॥ न तं पश्यामि यस्याऽसौ भवेन्नोदेजया मतेः । (९२) [ पञ्चमः- अन्या अपि स्त्रियः सन्तीति चेदाह --- नैवेन्द्राणी न रुद्राणी न मानवी न रोहिणी | - त्रैलोक्येनाऽपि बिन्दस्त्वं तां क्रीत्वा सुकृती भव ॥ २१ ॥ -- न तमित्यादि – सर्वथा न तं पश्यामि जानामि जगति यस्य सम्बन्धिन्या मतेश्चेतसः उद्देजया उत्कम्पिकासौ न भवेत् । चित्तक्षोभजनिकेत्यर्थः । उद्वे- जयतीति " अनुपसर्गाल्लिम्पविन्दधारिपारिवे चुदेजिचेतिसातिसाहिभ्यश्च । ३ । १।१३८।' इति कर्तरि शः । कुद्योगे कर्मणि षष्ठी । तस्मात् त्रैलोक्येनापि । त्रयश्च ते लोकाश्च त्रिलोकाः । त एव त्रैलोक्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे प्यञ्। 'स्वार्थिका अतिवर्तन्ते' इति नपुंसकत्वम् । तेनापि तां क्रीत्वा लब्ध्वा विन्दस्त्वं सुकृती भव पण्डितो भव । आढ्यो वा भव । पाण्डित्यमस्य त्रैलोक्यमात्रेणापि स्त्रीरत्नं क्रीत्वा लब्धमिति । विन्दतीति तेनैव सूत्रेण शः ॥ २१ ॥ वरुणानी न नाऽग्नायी तस्याः सीमन्तिनी समा ॥ २२ ॥ नैवेत्यादि — तस्यास्तु सीतायाः | 'तुल्यार्थैर तुलोपमाभ्याम् |२|३|७२।' इति षष्ठी । न काचित् सीमन्तिनी स्त्री समा तुल्या | 'सीमन्तः केशवेशे' इति पर - रूपत्वम् । अन्यत्र सीमन्तः स विद्यते यस्या इति, इनिः । इन्द्राणी इन्द्र- भार्या । न सम्यक् किं पुनरन्या । तथा रुद्राणी रुद्रभार्या | वरुणानी वरुण- भार्या ।' इन्द्रवरुणभवशर्वरुद्र मृडहिमारण्ययवयवनमातुलाचार्याणामानुक् १४|११४९।' इत्यानुकू । मानवी मनुभार्या । 'मनोरौ वा |४|१|३८|' इत्यौकारः । अनायी अग्निभाय । 'वृषाकप्यग्निकुसितकुसिदानामनुदात्तः । ४ । १ । ३७ । इति ऐरिति सर्वत्र 'पुंयोगादाख्यायाम् । ४ । १ । ४८ ।' इति ङीप् । रोहिणी चन्द्रभायी। रोहितशब्दात् 'वर्णादनुदात्तात्तोपधात्तो नः । ४ । १ । ३९ ।। इति ङीषू नकारश्च । वरुणानी न नाम्नायीत्यत्र प्रतिषेधः एकः पूर्वेण योज्थः द्वितीयः परेणेति । चाम्नायीति पाठान्तरम् ॥ २२ ॥