पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] प्रकीर्णकाण्डम् । संवित्तः सहयुध्वानौ तच्छक्ति खरदूषणौ । यज्वानश्च ससुत्वानो यानगोपीन्मखेषु सः ॥ ३७ ॥ । संवित्त इत्यादि -- नाहमेव रामशक्तिमवैमि अपि तु खरदूषगावपि संवि त्तः ज्ञातवन्तौ । 'वर्तमानसामीप्ये वर्तमानवद्वा |३|३|१३१|| इति भूते लट् । सकर्मकत्वात् 'समो गम्यृच्छिभ्याम् ||१|३|२९|' इति तङ् न भवति । तत्रा- कर्मकादिति वर्तते । सहयुध्वानौ सह तेन युद्धवन्तौ । 'सहेच | ३ | २९६ इति युधेः क्वनिप् । यज्वानञ्चाहिताग्नयः | ससुत्वान: सोमयाजिसहिताः । 'सुयजोनिप् |३|२||१०३ ।' संविदन्तीति वचनविपरिणामेन योज्यम् । यान- गोपीत् अरक्षीत् मखेषु स रामः । लुङि रूपम् । तथा मखद्रुहो राक्षसान् तो रामस्य शक्ति ज्ञातवन्तः ॥ ३७ ॥ माल्यधारयः । सुखजातः सुरापीतो नृजग्धो अधिलङ्क स्त्रियो दीव्य माऽऽरब्धा बलिविग्रहम् ॥ ३८ ॥ सुखेत्यादि -- यत एवं दुरुपस्थानः स तस्माद्बलिना रामेण विग्रहं माऽऽ- रब्धाः मा कार्षीः । रभेराङ्पूर्वात् 'माङ लुङ् ||३|३|१७५|' थास् । 'झलो झलि |८|२|२६|: इति सिलोपः । 'झषस्तथोर्थोऽधः |८|२|४०|' झलां जश् झशि |८|४|५३ | १ | किं कार्यमित्याह -- अधिलङ्क लङ्कायामधि | विभक्त्यर्थेऽव्ययीभावः । स्त्रियो दीव्य क्रीड । लोटि रूपम् । 'दिवः कर्म च |१९| १४|४३ || इति कर्मसंज्ञायां 'वाऽम्शसोः |६|४|८० इती । कीदृशः सुखजातः । जातं सुखमस्योत बहुव्रीहिः । कृतासवपानत्वात् । यदाह-सुरा- पीतः पीतमदिरः । नृजग्धः भुक्तमानुषः । निष्ठायामदो जग्धिः । पूर्व- वद्धत्वम् । एषु वाहिताम्यादिदर्शनात् परनिपातः । माल्यं धारयतीति माल्यधारयः । ‘अनुपसर्गाहिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च |३|१||१३८ ।' इतिशः ॥ ३८॥ तं भीतकारमाक्रुश्य रावणः प्रत्यभाषत । . यातयामं विजितवान् स रामो याद कि ततः ॥ ३९ ॥ तमित्यादि-तं मारीचं पूर्वोक्तं निराकुर्वन् रावणः प्रत्यभाषत प्रत्युक्ता- वान् । लङि रूपम् । भीतङ्कारमाक्रुश्य । भीतं कृत्वा भीतोऽसीति । 'कर्मण्या- क्रोशे |३|४|२५|’ कृञ्ः खमुञ् । यातयाम गतवयसम् । यदि विजितवान्... रामो दाशरथिः । किं ततः किं तापसः शूरः ॥३९॥