पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९०) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चमः - स्थः ।८।३।९७|' इति षत्वम् । कालकल्पशिलीमुखः मृत्युतुल्यशरः । रामो यज्ञद्रुहो राक्षसान् हन्ति । खविचारिणः आकाशचरणशीलान् । 'सुप्यजातौ णिनिस्ताच्छील्ये ।३।२।७८|' इति णिनिः ॥ १३ ॥ मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः । अश्नन्ति रामाद् रक्षांसि विभ्यत्यश्नुवते दिशः ॥ १४ ॥ मांसेत्यादि--ओष्ठावलोप्यानि ओष्ठाभ्यां छेदाणि शक्यानि वा । अर्थे शक्यार्थे वा कृत्यः । 'कृत्यैरधिकार्थवचने |२|१||३२|' इति समासः । साधनीयानि यज्ञस्य साधनाय हितानि । 'तस्मै हितम् |५|१|५|' इति छः सावनीयानीति पाठान्तरम् । तत्र सवनं स्नानं तद्योगात्स्नातकोऽपि तथोच्यते तत्र भवः सावनो यज्ञः । 'तस्मै हितम् ||१||५|' इति छः । तानि मांसानि देवता अश्नन्ति भुञ्जते न राक्षसा रक्षांसि किन्तु रामाद्विभ्यति । ' वा नपुंसकस्य १७१११७९।' इति शतुर्नुमभावपक्षे रूपम् । दिशोऽश्नुवते व्याप्नुवन्ति ॥ १४ ॥ कुरु बुद्धि कुशाऽग्रीयामनुकामीनतां त्यज । लक्ष्मीं परम्परीणां त्वं पुत्रपौत्रीणतां नय ॥ १५ ॥ कुर्वित्यादि — कुशाग्रीयां कुशाग्रमिव सूक्ष्माम् । 'कुशाग्राच्छः | ५|३|२०५॥ इति इवार्थे छः । स्थूलबुद्धिमी भूरित्यर्थः । अनुकामीनतां त्यज यथेच्छगा- मितां त्यज । 'अवारपारात्यन्तानुकामंगामी ।५।२ । ११ ।। इति खः । परम्परीणां परांच परतरांश्च अनुभवतीत्यर्थे परशब्दात् 'परोवरपरम्परपुत्र- पौत्रमनुभवति |५|२|१०|' इति खः परंपरदिशेश्च । तां लक्ष्मी क्रमायातां त्वं पुत्रपौत्रीणतां नय पुत्रांश्च पौत्रांश्चानुभवतीति खः । तस्य भावः । पुत्रपौत्रानु- गामिनीं कुर्वित्यर्थः ॥ १५ ॥ सहायवन्त उद्युक्ता बहवो निपुणाश्च याम् । श्रियमाशासते लोलां तां हस्ते कृत्य मा श्वसीः ॥ १६ ॥ सहत्यादि -- यां च श्रियं त्वदीयां शौर्योपात्तां सहायवन्तः ससहाया उद्युक्ता उत्साहवन्तो निपुणा: कुशला आशासते इच्छन्ति । 'आङ : शासु इच्छायाम्' इत्यादादिकस्यात्मनेपदिनो रूपम् । 'आत्मनेपदेष्वनतः |७१११५ ११ इत्यदादेशः । तां हस्तेकृत्य स्वीकृत्य | मा श्वसी: आश्वासं मा कार्षीः । चञ्चलत्वात् । यदाह लोलामिति । 'हृयन्तक्षणश्वसजागृीणश्व्योदताम् ।७।२।५१ इति वृद्धिप्रतिषेधः । 'इट ईटि | ८ | २ | २८ ।' इति सिचो लोपः । 'नित्यं । १ । ४ । ७७ । ' इति गतिसंज्ञायां समासे त्यबादेशः ।। १६ ।।