पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः] प्रकीर्णकाण्डम् | (८९) अध्वरेण्वित्यादि —त्वय्यवम्भूतेऽधुना दुच्यवन इन्द्रः आश्रमानैति आग- च्छति । आङ्पूर्वस्येण: 'एत्येधत्यू |६||१||८९ |' इति वृद्धिः । सोमसुत्वतः सोमं सुनोतीति 'सोमे सुञः |४|२|१०|' इति क्विपू । सोमसुतः सन्ति येष्वाश्रमेष्विति मतुप् | 'तसौ मत्व |१|४|१९|' इति भत्वे तकारस्य जश्त्वं न भवति । ‘झयः | ८|२|१०|' इति मतोत्वम् । किमर्थमैतत्याह-अत्तुं भक्षयितुं महेन्द्रियं भागम् । महेन्द्रो देवता अस्येति । 'महेन्द्राद्धाणौ च ।४।२।२९।' इति घः । क्व अध्वरेषु यज्ञेषु । अग्निचित्वत्सु । अग्निं चितव- न्तोऽग्निंचितः आहिताग्नयः । 'अग्नौ चेः |३|२१|९१ |' इति क्विप् । ते सन्ति येष्विति पूर्ववन्मतुप् ॥ ११ ॥ आमिक्षीयं दधिक्षीरं पुरोडाइयं तथौषधम् | हवियङ्गवीनं च नाऽप्युपनन्ति राक्षसाः ॥ १२ ॥ आमीत्यादि --दघ्ना सहितं शृतं पय आमिक्षा | तस्मै हितमामिक्षीयम् । 'विभाषा हविरपूपादिभ्यः |५|१२|१४|| इति छयतौ । दधि च क्षीरं चेति । 'विभाषा वृक्षमृगतृणधान्यव्यञ्जन पशुशकुन्यश्ववडवपूर्वापराघरोत्तराणाम् । २|| ४ | १२ |' इति व्यञ्जनत्वादेकवद्भावः । पुरोडाशाय हितमौषधं नीवारत- पडुलादि पुरोडाश्यम् । अप्पादित्वाद्यत् । ओषधिरेवौषधम् । 'ओषधेरजातौ १५|४|३७७' इत्यण् | तण्डुलानाम जातित्वात् । 'स्वार्थिकाश्च प्रकृतितो लिङ्ग- वचनान्यतिवर्तन्ते' इति नपुंसकलिङ्गता | हवि: हूयत इति हविः । ‘अर्चि- शुचिडुसृपिछदिछार्दभ्यः' इत्यैणादिक इस । हैयङ्गवीनं घृतम् । ह्योगोदोहस्य विकार इत्यर्थे 'हैयङ्गवीनं संज्ञायाम् |५|२|२३|| इति निपातनात् खन्, हियङ्ग्ग्वादेशश्च । तानि नाप्युपन्नन्ति राक्षसाः त्वय्युदासीने सति ॥ १२ ॥ । । इदानीं कार्यप्रदर्शनेन प्रोत्साहयितुमाह --- युवजानिर्धनुष्पाणिभूमिष्ठः खबिचारिणः । रामो यज्ञद्रुहो हन्ति काल कल्पशिलीमुखः ॥ १३ ॥ युवेत्यादि — युवतिः यौवनवती जाया यस्य युवजानि: । 'जायाया निङ् १६ | १२|७६ | वलि लोपः । 'स्त्रियाः पुंवद्भाषितपुंस्कानूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु |६|३|३४|| इति पुंवद्भावात् स्त्रीप्रत्ययो निवर्तते धनुष्पाणि: पाणौ धनुर्यस्य । प्रहरणेत्यादिना परनिपातः । भूमिष्ठ: भूमौ तिष्ठतीति भूमिष्ठः । नाकाशचरः । 'सुपि स्थः |३|२|१४|| इति कः । 'अम्बाम्बगोभूमिसव्यापद्वित्रिकुशे कुशङ्कङ्गुमाञ्जपुजिपरमेबर्हिर्दिव्यग्निभ्यः ।