पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८८) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चमः - विनसेति पाठान्तरम् । तत्र विगता चासौ नासिका च विनासिका तव इत्थम्भूलतक्षणायां तृतीयायां 'पदन्नोमासहुन्निशस न्यूपन्दोपन्य कञ्छ- कन्नुदन्नासञ्छस्प्रभृतिषु । ६ ।१ । ६३ ।' इति नसादेशः । विगतया नासि- कयोपलक्षितेत्यर्थः । विगता नासिका अस्या इति बहुव्रीहिणा व्याख्याने 'अञ- नासिका-' इत्यादिना अच् नसादेशश्च प्राप्नुतः। तस्य संज्ञा विषयत्वात् 'उपसर्गाच्च- उत्य संज्ञायां विधीयमानो न भवति 'वेर्मो वक्तव्यः' इति ग्रादेशो बाधकः । हे नाथ यद्यहं विनासा हतबान्धवा नायास्यं न याताऽभविष्यम्, तदा तदिदं सर्व भ्रात्रोर्वधं नासाच्छेदं च नाज्ञास्यः न ज्ञातोऽभविष्यः । क्रियातिपत्तौ लङ् । अज्ञाने कारणमाह — प्रमाद्यन् विषयेषु प्रमादं गच्छन् । चारदुर्बलः चारहीनः । चारा हि चक्षू राज्ञां कार्याकार्यज्ञानाय लोके । चरतीति चरः पचाद्यच् । चर एव चार : 'प्रज्ञादिषभ्यश्च |५|४|३८ |' इत्यण ॥ ९ ॥ करिष्यमाणं विज्ञेयं कार्य किं नु कृतं परैः | अपकारे कृतेऽप्यज्ञो विजिगीपुर्न वा भवान् ॥ ९ ॥ • - करिष्यमाणमित्यादि - परैः शत्रुभिरपचयचिकीर्षया करिष्यमाणं कार्य विज्ञेयम् । किं नु कृतमेव यत्तदवश्यमेव विज्ञेयमित्यर्थः । त्वं पुनः परैरपकृतो- ऽपि अज्ञोऽविदितस्वरूपः । अतो विजिगीषुर्न वा भवान् । अतो न राज्यं संभावयतीत्यर्थः ॥ ९ ॥ वृतस्त्वं पात्रेसमितैः खटाऽऽरूढः प्रमादवान् । पानशौण्डः श्रियं नेता नाऽत्यन्तीनत्वमुन्मनाः ॥ १० ॥ वृत इत्यादि--अत्यन्तं गामिनीति 'अवारपारा सन्तानुका मंगामी ।५।२। । ११ ।” इति खः । तस्य भावोऽत्यन्तीनत्वम् । नैवात्यन्तीनामत्यन्तगामि- नीं श्रियं नेता न प्रापणशीलः | 'तृन् | ३|२|१३५|| इति ताच्छीलिकस्तृन् । 'न लोकाव्ययनिष्ठाखलऽर्थतॄनाम् ।२।३२६९।। इति षष्ठीप्रतिषेधः । यद्यपि महोदयं राज्यं प्राप्तवानसि तथापि न चिरकालमित्यर्थः। ः। यतस्त्वमुन्मनाः भ्रान्तचित्तः । यतः पानशौण्ड: पाने प्रसक्तः । 'सप्तमी शौण्डैः | २|१|४०' इति स० । अत एव प्रमादवान् । अतोऽपि खट्टारूढ: उत्पथप्रस्थितः । 'खट्टा क्षेपे || २|१||२६ ।' इति द्वितीया स० | तत एव पात्रेसमितैः भोजन एव सन्निहितैः अनुजीविभिर्वृतः । 'पात्रेसमितादयश्च |२|१|४८|' इति क्षेपे स० ॥ १० ॥ अध्वरेष्वग्निचित्वत्सु सोमसुत्खत आश्रमान् । अत्तुं महेन्द्रियं भागमेति दुश्च्यवनोऽधुना ॥ ११ ॥