पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (८१) वपुः शरीरं संदर्भ्य दर्शयित्वा बन्धूनां विक्रम शौर्य मुहुः पुनः पुनः अपिस्फवत् स्फीतीचकार । 'अर्तिहीव्लीरीकनूयीक्ष्माय्यातां पुणौ |७|३|३६| इति णावित्यनुवृत्तौ ' स्फयो वः । ७ | ३ | ४१ ।' इति वकारः । स्फाय- तेश्चाङ णिलोपः । ह्रस्वद्विवचनादि । अभ्यासस्य खयः शेषः । चर्त्वामित्वं च सन्वद्भाव । निनक्षुः नष्टुमिच्छुरित्यर्थः । नशेः सनि 'मस्जिनशोर्झलि । ७ । १९६० |' इति नुम् ॥ ३३ ॥ खरदूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः । विजिग्राहयिषू रामं दण्डकारण्यवासिनोः ॥ ३४ ॥ खरेत्यादि --खरदूषणयोर्भ्रात्रोर्दण्डकारण्यवासिनोः पुरः अग्रतः पर्यदेविष्ट परिदेवनं कृतवतीति । 'देव देवने ।' इत्यस्यादात्मनेपदिन: सेटो लुङि रूपम् । परिदेवने कारणमाह -- विजिग्राहयिषुः रामं त्रिग्राहयितुं योधयितुमिच्छुः । ग्र हेर्ण्यन्तस्य सन्नन्तस्य रूपम् । 'रोरि |८|३|१४|| इति रेफलोपः लोपे पूर्वस्य दीर्घोऽणः |६|३|१११|' इति दीर्घत्वम् ॥ ३४ ॥ किं पर्यदेविष्ट इत्याह-- कृते सौभागिनेयस्य भरतस्य विवासितौ । पित्रा दौर्भागिनेयौ यौ पश्यतं चेष्टितं तयोः ॥ ३५ ॥ 6 दू- कृतेइत्यादि -- भरतस्य कृते कार्यनिमित्तं राज्ये अभिषेक्तव्यमिति । सुभगा केकयी तस्या अपत्यं सौभागिनेयः | 'स्त्रीभ्यो ढक्||१४|१||१२० ।' 'कल्याण्यादीना- मिनङ् ।४।१।१२६’तत्र सुभगा दुर्भागा चेति पठ्यते । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च७।३।१९।' इत्युभयपदवृद्धिः । पित्रा यौ विवासितौ निष्कासितौ दौर्भागिने यौ कौसल्या सुमित्रा च दुर्भगे तयोरपत्ये रामलक्ष्मणौ तयोश्चेष्टितं नासाच्छेदनं पश्यतम् । विधौ प्रार्थनायां वा लोट् | यसस्तम् ॥ ५ ॥ मम रावणनाथाया भगिन्या युवयोः पुनः । अयं तापसकाद् ध्वंसः क्षमध्वं यदि वः क्षमम् ॥ ३६ ॥ ममेत्यादि-- रावणो नाथ: प्रभुर्यस्याः मम विशेषणम् । युवयोर्भगिन्या अयं तापसकात् कुतापसात् । कुत्सायां कन् । ध्वंसो नासिकाविनाशः यदि वः युष्माकं गुरूणां क्षमं युक्तम् क्षन्तुमित्यर्थात् । युष्मदि गुरावेकेषामिति बहु- वचनं तयोर्ज्येष्ठत्वात् । तर्हेि क्षमध्वम् उपेक्षध्वम् । रावण एव ज्ञास्यतीति भावः ॥ ३६॥ पुनरध्येजयितुमाह-