पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८२) भट्टिकाव्ये जयमङ्गलासमेते- असंस्कृत्रिमसंव्यानावनुष्त्रिमफलाशिनौ । अभृत्रिमपरीवारौ पर्यभूतां तथापि माम् ॥ ३७ ॥ [ चतुर्थ:- असमित्यादि–संस्कारेण वापन भरणेन च निवृत्तं संस्कृत्रिमम् | उप्तिमं भृत्रिमं च । ‘ ड्वितः क्विः | ३||३||८८|' 'क्त्रेमम् नित्यम् ४|२|२०|'संपर्युपेभ्यः ६। १ । १३७ ।' इति सुट् । सम्पूर्वस्य क्वचिदभूपणेऽपीप्यते । संस्कृत्रिमं न विद्यते येषामिति नञ्समासः । असंस्कृत्रिमाणि संव्यानानि परिधानानि उत्तरीयाणि ययोः । वल्कलवाससावित्यर्थः । अनुप्लिमाणि फलानि अशनमा- हारो ययोः तौ वन्यफलाहारौ न तु शालिभोजनौ । परिव्रियतेऽनेनेति घञ । 'उपसर्गस्य धञ्यमनुष्ये बहुलम् | ६||३|१२२|' इति दीर्घः । मृगाणाममनुष्य- त्वात् । अभृत्रिमः परीवारोऽनुजीविलोको ययोस्तौ मृगपरीवारौ । तथाऽपि मां पर्यभूतां परिभूतवन्तौ । लुङि रूपम् ॥ ३७ ॥ । श्वःश्रेयसमवाप्तासि भ्रातृभ्यां प्रत्यभाणि सा । प्राणिवस्तव मानार्थं व्रजाऽऽश्वसिहि मा रुदः ॥ ३८ ॥ श्वःश्रेयसमित्यादि --श्वः शब्दः प्रशंसामाह । शोभनं श्रेय इति वाक्ये 'श्वसो वसीयः श्रेयसः |५|४|८०' इत्यच् । मयूरव्यंसकादित्वात् समासः । श्वः- श्रेयसं कल्याणमवाप्तासि प्राप्स्यसि । भविष्यदनद्यतने लुट् । मारयावस्तावि- त्युक्तं भवति । ताभ्यां भ्रातृभ्यां प्रत्यभाणि प्रतिभणिता सा । कर्मणि लुङ् । प्राणिवस्तव मानार्थम् । तव मानखण्डनं मा भूदिति जीवाव: । 'श्वस प्राणने, अन च’ । ‘रुदादिभ्यः सार्वधातुके |७|२|७६ |' इति इट् ।‘ अनितेः।८।४।१९।’ इति णत्वम् । तस्माद् व्रज | यथास्थानं गच्छ । आश्वसिहि । उद्वेगं त्यज । विधौ प्रार्थनायां वा लोट् । मा रुदः | 'माङलुङ् |३|३|१७५ ।’ ‘इरितो वा ।३।१।५७|’ इत्यङ् । यदा नास्ति तदा मा रोदीरिति ॥ ३८ ॥ जक्षिमोऽनपराधेऽपि नरान् नक्तंदिवं वयम् । कुतस्त्यं भीरु ! यत्तेभ्यो द्रुह्ययोऽपि क्षमामहे ॥ ३९ ॥ जक्षिम इत्यादि - - वयम् अनपराधेऽपि । नक्तं च दिवा च नक्तन्दिवम् । 'अचतुरविचतुरसुचतुर-- | ५|४|७७१' इत्यादौ निपातितम् । नरान् जक्षिमो भक्षयाम: । 'जक्ष भक्षहसनयोः ।' इति भक्षार्थस्य । 'रुद्रादिभ्यः सार्व- धातुके ।७।२।७६।’ इतीट् । 'अस्मदो द्वयोश्च |१|२||५९ तद्वत्वमिति बहुवचनम् । यत एवं हे भीरु ! संबुद्धौ गुणो न भवति 'संज्ञापूर्वको विधर-