(८०) भट्टिकाव्ये जयमङ्गलासमेते- तस्याः सासद्यमानाया लोलूयावान् रघूत्तमः । असिं कौक्षेयमुद्यम्य चकाराऽपनसं मुखम् ॥ ३१ ॥ [चतुर्थः- तस्या इत्यादि--सासद्यमानायाः समीपे गर्हितं सीदन्त्याः प्रविशन्त्याः । ‘लुपसदचरजपजभदह्दशगृभ्यो भावगर्हायाम् | ३ | १ | २४ ।' इति यङ् | रघूत्तमो लक्ष्मणः । मुखमपनसमपगतनासिकं चकार । ' उपसर्गाच्च |५|४| ११९।' इत्यच् । नासिका च नसादेशमापद्यते । तत्र संज्ञायामिति नानुवर्तते । किं कृत्वा कौक्षेयमसिमुद्यम्य उत्क्षिप्य । कुक्षौ भव इति 'हतिकुक्षिकलाश- बस्त्यस्त्यहेढैञ् |४|३|५६|' इति ढन् । कौक्षेयः । लोल्यावान् अत्यर्थं लवन- क्रियायुक्तः । लुनातीति लोलूया । यङन्ताद् ' अप्रत्ययात् |३|३|१०२|' इत्य- कारः । सा विद्यते यस्येति मतुपू ॥ ३१ ॥ अहं शूर्पणखा नाम्ना नूनं नाऽज्ञायिषि त्वया | दण्डोऽयं क्षेत्रियो येन मय्यपातीति साऽब्रवीत् ॥ ३२ ॥ अहमित्यादि- ई-सा राक्षसीत्यब्रवीत् । अहं शूर्पणखेति नाम्ना नूनमवश्यं त्वया नाज्ञायिषि न ज्ञातास्मि । ज्ञा इत्यस्मात्कर्माणि लुङ् | स्यसि - ६।४।६२ | इत्यादिना अजन्तत्वात् चिण्वदिट् ।‘आतो युक् चिण्कृतो |७|३|३३|' इति युक् ।‘स्वाङ्गा- च्चोपसर्जनात्-४॥१॥५५॥' इति ङीपि प्राप्ते 'नखमुखात् संज्ञायाम् |४|१|५८ इति प्रतिषेधः । ‘पूर्वपदात्संज्ञायामगः |८||४|३|| इति णत्वम् । अज्ञाने कारण- माह - येनायं दण्डो नासाच्छेदनलक्षणो मय्यपाति पातितः । पातेः कर्मणि चिणादेशः ‘अत उपधायाः ।७ । २ । ११६ ।। इति वृद्धिः | 'चिणो लुक् |६|४| १०४।' क्षेत्रियः परक्षेत्रे चिकित्स्यः परक्षेत्रे जन्मान्तरशरीरे यदि शक्यश्चि कित्सितुं तदा नासिकायाः सम्भवात् । 'क्षोत्रयच् परक्षेत्रे चिकित्यः | ५ | २॥ ९२ |' इति निपातनम् ।। ३२ ।। । पर्यशाप्सीदिविष्ठाऽसौ संदर्य भयदं वपुः । अपस्फवच्च बन्धूनां निनङ्ङ्क्षविक्रमं मुहुः ॥ ३३ ॥ पर्यशाप्सीदित्यादि--असौ राक्षसी पर्यशाप्सीत् आक्रुष्टवती । शपेरनिट: सिाच हलन्तलक्षणा वृद्धिः। शप उपालम्भन इति तङ् न भवति उपालम्भनं हि वाचा शरीरस्पर्शनम् । दिविष्ठा नभसि वर्तमाना। 'तत्पुरुषे कृति बहुलम् ६ । ३३ १४ ।' इति सप्तम्या अलुक् । 'अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्- क्वङ्गमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः । ८।३।९७७ | इति पत्वम् । भयेदं रौद्र १ भयं ददातीति तादृशम् । 'आतोऽनुपसर्गे कः | ३ | ३ | १०९।' इति कः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११८
दिखावट