पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत || मामुपायंस्त रामेति वदन्तो साऽऽदरं वचः ॥ २८ ॥ तत इत्यादि ---- ततो लक्ष्मणवचनानन्तरमसौ राक्षसी वावृत्यमाना राम वृण्वाना | 'वृतु वरणे' । इति देवादिकः आत्मनेपदी | रामशालां रामस्य शाला पर्णकुटीरं ताम् न्यविक्षत प्रविष्टा । विशे: ‘शल इगुपधादनिटः क्सः । ३ । १ । ४५ ।’ ‘नैर्विशः । १ । ३ । १७ ।' इति तङ् । मामुपायंस्त रामेति राम अहं प्रार्थये भवान् मामुपायंस्त परिणयत्विति वाक्यभेदेन योज्यम् । 'आशंसायां भूतवञ्च |३|३||३२|' इति लुङ् । 'उपाद्यमः स्वकरणे | १|३|५६ | १ इति तङ् । ‘विभाषोपयमने |१|२|१६|| १ | इत्यकित्त्वपक्षे रूपम् । इत्येवं वचः सादरं वदन्ती ॥ २८ ॥ अस्त्री कोऽसावहं स्त्रीमान् स पुष्यतितरां तव ॥ पतिरित्यब्रीद् रामस्तमेव व्रज मा मुचः ॥ २९ ॥ (७९) . अस्त्रीत्यादि ----असौ लक्ष्मणोऽस्त्रीकः । न विद्यते अस्य स्त्रीति । 'नघृतश्च १५|४|१५३।' इति कप् | 'न कपि |७|४|१४|' इति ह्रस्वप्रतिषेधः । अहं पुनः स्त्रीमान् सभार्यः । प्रशंसायां मतुप् । स एव लक्ष्मणः । पुष्यतितराम् अतीव पुष्यति लक्ष्मणस्तव पतिः । 'तिङ |५|३|५६|' इति तरप् | 'किमेत्ति- ङव्ययवादाम्वद्रव्यप्रकर्षे |५|४|११|' इत्याम् । तस्मात्तमेव लक्ष्मणं व्रज गच्छ । मा मुचः मा त्याक्षी: मुचेर्लङ् । लदित्त्वाद् । इति एकमब्रवीद्रामः उक्तवान् । आदादिकस्य ब्रुञो लङि 'ब्रुव ई १७१३ १९३|' इति ईटि रूपम् ॥ २९ ॥ लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवाऽगमत् । मन्मथाऽऽयुधसम्पातव्यथ्यमानमतिः पुनः ॥ ३० ॥ लक्ष्मणमित्यादि-- लक्ष्मणं पुनर्भूयोऽगमत् । लक्ष्मणं प्रति गता । यथा गौवृषस्यन्ती मैथुनेच्छावती महोक्षं महावृषम् । वृषस्यन्तीत्युपमानविशेषणमे- तत् । तेन वृषं लब्धुमिच्छतीति क्यच् । 'अश्वक्षीरवृपलवणानामात्मप्रीतौ क्यचि । ७ । १ । ५१ ।' इति असुक् । तद्व्यश्ववृषयोमैथुनेच्छायामिति । तद्वदागमत् । महोक्षमिति 'अचतुरविचतुरसुचतुर - |५|४|७७|' इत्यादिसूत्रेण निपतितम् । मन्मथस्यायुधानि शराः । आयुध्यन्ते एभिरियायुधानि । घन कविधानमिति कः । तेषां सम्पातः । संश्लेषः । तस्मात् व्यध्यमाना पीड्यमाना मतिर्मनो यस्याः ॥ ३० ॥