पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७८) भट्टिकाव्ये जयमङ्गलासमेते- वपुश्चान्दनिकं यस्य कार्णवेष्टकिकं मुखम् । सङ्ग्रामे सर्वकर्मीणौ पाणी यस्यौपजानुकौ ॥ २५ ॥ वपुरित्यादि- [ चतुर्थः -31 - यस्य राघवस्य वपुः शरीरं चान्दनिकं चन्दनेन सम्पद्यते प्राप्तशोभं भवति । मुखं च कार्णवेष्टकिकम् । कर्णवेष्टकाभ्यां कर्णालङ्काराभ्यां कार्णवेष्टकिकम् । तत्रोभयत्र 'सम्पादिनि ।५।११९९१ |' इति ठक् | पाणी हस्तौ संग्रामे युद्धे सर्वकर्मीणो धनुःखड्गादिव्यापारकर्मणि व्याप्नुतः । 'तत्सर्वादे: पव्यङ्गकर्म्मपत्रपात्रं व्याप्नोति |५|२|७|' इति खः । औपजानुकौ आजानुको । आजानुलम्बावित्यर्थः । अत्र ठक् । 'इसुसुक्तान्तात्कः |७|३|५||१२५ || बद्धो दुर्बलरक्षाऽर्थमसिनोपनीविकः । यश्चापमाश्मनप्रख्य सेषु धत्तेऽन्यदुर्वहम् ॥ २६ ॥ बद्ध इत्यादि--येन असिः खड्गः औपनीविकः । नीविसमीपे प्रायेण भवतीति । स हि नीवीं प्राप्य वर्तमानः पार्श्वयोश्चोर्ध्वं निबद्धः । किमर्थ-दुर्बलरक्षार्थं दुर्बल- रक्षायै इदमित्यस्मिन्नर्थे 'चतुर्थी तदर्थार्थ ०-२|१|३६ |' इत्यादिना सः । तत्रार्थेन नित्यः समासः सर्वलिङ्गता च । यश्चापं धनुर्धत्ते धारयति । आश्मनप्रख्यम् । अश्मनो विकार इत्यण् । 'अन् | ६ | १४ | १९६७ |' इति प्रकृतिभावे प्राप्ते 'अश्मनो विकारे० --' इति टिलोप: पाक्षिकः । विभाषजरित्यतो मण्डूकप्लुत्या विभाषाग्रहणानुवृत्तेर्विकारे वाच्ये । अन्यत्राश्मन एव भवति । आश्मनेन प्रख्या सादृश्यमस्य तदाश्मनप्रख्यमुपलघटितमिव । सेषु सशरम् । अन्यदुर्वहं दुःखेनोह्यत इति खल् । रामादन्येन दुर्वहमित्यर्थः ॥ २६ ॥ जेता यज्ञद्रुहां संख्ये धर्मसन्तानसूर्वने ॥ प्राप्य दारगवानां यं मुनीनामभयं सदा ॥ २७ ॥ जेतेत्यादि -- यज्ञाय द्रुह्यन्तीति यज्ञद्रुहो राक्षसाः | 'सत्सूद्विषद्रुहदुहयुज- विद्भिदच्छिदजिनीराजामनुपसर्गेऽपि विप् ।३।२।६१ |' इति विप् | तेषां सङ्ग्रामे जेता । तृजन्तोऽयम् । ततश्च कृत्प्रयोग कर्मणि षष्ठी । धर्मसन्तानसू: पूर्ववत् किए । धर्मरत इत्यर्थः । बने वर्तमानानां मुनीनां वानप्रस्थादीनामित्यर्थः । तेषां भार्याग्निपरिग्रहात् यानि दारगवानि | दाराश्च गावश्चेति दारगवानि ‘अचतुरविचतुर–५॥४॥७७१' इत्यादिना निपातितानि । दारयन्तीति दाराः । 'दारजारौ कर्तरि णिलुकू च' इति घञ् । तेषां च येनाभयं सदा दत्तमिति योज्यम् । येषामेव प्राप्तिक्रिया तेषामेवाभयमिति समानकर्तृकत्वम् ॥ २७ ॥