संर्गः ] प्रकीर्णकाण्डम् । (७७) इष्णुच् । ३ । २ । १३६ ।' इति इष्णुच् । अत एव दिव्यधर्मिणी । दिवि भवा दिव्याः देवा राक्षसा अपि देवयोनित्वात् । तेषां धर्मः स्वभावः सोऽस्या अस्तीति । 'धर्मशीलवर्णान्ताच्च । ५ | २ | १३२ ।। इति इनिः । अप्सरायमाणा अप्सरा इवाचरन्ती । राक्षसभावं गोप्तुमिति भावः । 'उपमानादाचारे' इत्य्- धिकारे ‘कर्तुःक्यङ् सलोपञ्च | ३|१|११|' 'ओजसोऽप्सरसो नित्यम्' इति वच- नात् । इह वने स्वतन्त्रा कथमञ्चसि भ्रमसि | स्व आत्मा तन्त्रः प्रधानं यस्याः अपराधीनत्वात् । अनयोक्त्या राक्षसीत्वं दर्शयति ।। २२ ।। उग्रम्पश्यISSकुलेऽरण्ये शालीनत्वं विवर्जिता । कामुक प्रार्थनापी पतिवनी कथं नवा ॥ २३ ॥ उग्रमित्यादि––उग्रम्पश्यन्तीत्युग्रम्पश्याः । पापाशयत्वात् । शबरादयः । ‘उग्रम्पश्येरम्मद्पाणिन्धमाश्च | ३ | २ | ३७ ।' इति खश् निपात्यते । तैरा- कुले व्याप्ते अरण्ये | पतिवत्नी जीवत्पतिः कथं केन प्रकारेण न वा नैवें भव- सीत्यर्थः । 'अन्तर्वत्पतिवतोर्नुक् । ४ । १ । ३२ ।' इत्यत्र पतिर्विद्यते अस्या इति मतुप् सिद्ध: । जीवत्पत्यां मतुपो वत्वं निपात्यते । नुक् सूत्रेणैव विधी- यते। ङीप्प्रत्ययस्तूगित्त्वादेव सिद्धः । शालीनत्वविवर्जिता । अधृष्टतया वर्जिता । शाला प्रवेशमर्हतीति 'शालीन कौपीने अधृष्टाकार्ययोः । ५ । २ । २० ।' इति ख़ञ् निपात्यते । अधृष्टेऽभिधेये प्रवेशशब्दस्य लोपः । तस्य भावः शाली- नत्वम् । कामुकः कामशीलः । 'लपपतपदस्थाभूवृषहनकमगमगृभ्य उकस । ३ । २ । १५४ ।' इत्युकञ् | तस्य प्रार्थनायां पट्टी चतुरा | 'वोतो गुणव- चनात् । ४ । १ । ४४ ।' इति ङीष् ॥ २३ ॥ राघवं पर्णशालायामिच्छाऽनुरहसं पतिम् । यः स्वामी मम कान्तावानौपकर्णिकलोचनः ॥ २४ ॥ - राघवमित्यादि - रामं पर्णशालायामवस्थितं पतिमिच्छ । अनुरहसं विवेक- प्राप्तमनुगतो रह इति विगृह्य 'अन्ववतप्ताद्रहसः |५|४|४८१ |' इत्यच् | यो राघवो ममापि स्वामी प्रभुः । 'स्वामिन्नैश्वर्ये | ५|२|१२६|| इति निपातितम् कान्तावान् सभार्यः । प्रवृत्तसम्भोगोऽसौ नाहमिति दर्शयति । तमेव रूप- शौर्याभ्यां वर्णयन्नाह --- औपकर्णिकलोचनः । कर्णयोः समीपमुपकर्णम् । समीपार्थे अव्ययीभावः । तत्र प्रायभव इति । 'उपजानूपकर्णोपनविष्ठक |४|३|४०|' शेषमपि शब्दद्वयं प्रयोक्ष्यते । औपकर्णिके लोचने यस्य कर्णा- न्तायतलोचन इत्यर्थः ॥ २४ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११५
दिखावट