सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७६) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्थः- त्वच्छरीराय हिताम् । अवैधव्यादिलक्षणयोगात् । 'आत्मन्विश्वजनभोगोत्तर- पदात् खः । ५ । १ । ९ ।' इति खः । सहचरीं सहगामिनीम् 'भिक्षासेनादा- येषु च ३|२|१७|' इति चकारस्यानुक्त समुच्चयार्थत्वात् टप्रत्ययः । कियन्तं कालम् पुरुषायुषं पुरुषस्यायुर्यावत् ।'अचतुरविचतुर०-५॥४॥७७|' इत्यादौ निपातितः । 'कालाध्वनोरत्यन्तसंयोगे |२|१२|२९|| इति द्वितीया | चरणक्रियायाः कृत्स्न- संयोगात् । यथा मासमुषित इति ॥ २० ॥ तामुवाच स गौष्ठीने वने स्त्रीपुंसभीषणे ॥ असूर्यपश्यरूपा त्वं किमभीरुररार्यसे ॥ २१ ॥ तामित्यादि - तां राक्षस स लक्ष्मण उवाच उक्तवान् । किमित्याह - गौष्टीने बने गोष्टं भूतपूर्व यस्मिन्वने । इदानीं नामापि न ज्ञायते । ‘गोष्ठात् खञ् भूतपूर्वे । ५ । २ । १७ ।' इति खञ् । स्त्रीपुंसभीषणे । स्त्री च पुमांश्चेति स्त्रीपुंसौ । ‘अचतुरविचतुरसुचतुर० -- ५।४ । ७७ ।' इत्यादौ निपातितः । तयो- भीषण इति षष्ठीसमासः । बिभेतेर्णिचि हेतुभये षुक् । तदन्तात् 'कृत्यल्युटो बहुलम् । ३ । ३ । ११३ ।' इति कर्तरि ल्युट् । तस्मिन्नभीरुः निर्भयां सती किमित्यरार्यसे अत्यर्थमटसि । अर्तेः 'सूचिसूत्रिमूत्र्यटयर्यशूर्णोतिभ्यो य वाच्यः’ इति यङ् । ‘यङि च |७|४||३०|| इति गुणः । 'न न्द्राः संयोगादयः ।६।१ । ३ ।' इति प्रतिषेधस्य प्रतिषेधो यकारपरस्य न द्वित्वनिषेध इति रेफो द्विरुच्यते । भयशीला भीरुः । 'भियः क्रुक्लुकनौ । ३ । २ । १७४।१ क्रियाशब्दत्वात् 'ऊङुतः । ४ । १ । ६६ ।' इति ऊङ् न भवति । अमनुष्य- त्वाच्च । तथाहि लक्ष्मणेनामानुषीयमिति ज्ञाता । तथाच भङ्गया दर्शयन्नाह - असूर्यम्पश्यरूपा । अतिगोपनीयतया सूर्यमप्यनिषिद्धदर्शनं न पश्यतीति । “असूर्यललाटयोदृशितपोः । ३ | २ | ३६ |' इति खश् । 'पाघ्राध्मास्थाम्नादाणूदृ- श्यर्तिसर्तिशदसदां पिबजिब्रघमतिष्ठमनयच्छ पश्यर्छधौशीयसीदाः |७|३।७८।' इति देश: । सूर्यम्पश्यं रूपं यस्या इति समासः । सा न पश्यतीति रूपमपि न पश्यतीत्युक्तम् ॥ २१ ॥ मानुषानभिलष्यन्ती रोचिष्णुर्दिव्यधर्मिणी ॥ त्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चारी ॥ २२ ॥ मानुषानित्यादि- मनोरपत्यानि मानुषाः । 'मनोजतावञ्यतौ पुक् च ७ ४ । १ । १६१ ।' तानभिलप्यन्ती कामयन्ती रन्तुमिच्छन्ती । 'वा भ्राश - भ्लाश भ्रमुऋमुक्तमुत्रसित्रुटिलप: |३|१२|७०।' इति श्यन् । रोचिष्णुः रोचन- स्वभावा । 'अलङ्कनिराकृञ्ञप्रजनोत्पचोत्पतोन्मदरुच्य पत्रपवृतुवृधुसहचर -