पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | (७५) उन्नता नासिका यस्मिन्निति । 'अञ्नासिकायाः संज्ञायां नसं च' इत्यधिकृत्य 'उपसर्गाच्च । ५ । ४ । ११९ ।' इत्यच् । नासिका च नसादेशमापद्यते । शुद्ध- दत् शुद्धाः शुक्का दन्ता यस्मिंस्तच्छुद्धदत् 'अप्रान्तशुद्धशुभ्रवृपवराभ्यश्च । ५ । ४ । १४५ ।' इति ददादेशः । लोले चञ्चले कुण्डले यस्मिन् तत् लोल- कुण्डलम् । पश्यतो जनान् शंयून् विद्यमानसुखान् कुर्वाणा शं सुखं तदस्या- स्तीति । 'कशंभ्यां बभयुस्तितुतयसः । ५ । २ १३८ ।' इति युस । सित्वात्पदसंज्ञा । अनुस्वारः | अपश्यतो वा शंबून् कुर्वाणा पश्यतां तु पीडा- करी । स्रग्विणी मालावती । 'अस्मायामेधास्रजो विनिः । ५ । २ ।१२१ । इति विनिः । सुहसानना हसनं इसः । 'स्वहसोर्वा |३|३ | ६२ | इत्यपू । शोभनहसनमाननं यस्याः सा ॥ प्राप्य चश्चर्यमाणासौ पतीयन्ती रघूत्तमम् । अनुका प्रार्थयाञ्चके प्रियाकर्ते प्रियंवदा ॥ १९ ॥ - प्राप्येत्यादि — प्राप्य ढौकित्वा । चञ्चूर्यमाणा गर्हितमाचरन्ती । प्राणिनो हन्तव्या इति । चरे: 'लुपसदचंरजपजभदहदशगृभ्यो भावगीयाम् |३ । १ । । २४ ।' इति भावगर्हायां यङ् । 'चरफलोश्च । ७ । ४ । ८७ ।' इत्यभ्या सम्य नुक् । 'उत्परस्यातः । ७ । ४ । ८८ ।' इत्युत्वम् । 'हलि च |८|२|७७११ इति दीर्घत्वम् । पतीयन्ती आत्मनः पतिमिच्छन्ती । 'सुप आत्मनः क्यच् ।३।१।८ ।' अनुका अभिलाषुका | 'अनुकाभिकाभीक : कमिता । ५ । । २।७४।' इति निपातितः । रघूत्तमं लक्ष्मणं प्रार्थयाञ्चक्रे प्रार्थितवती । प्रियाकर्तुमनुलोमयितुम् । पति स्या इति । 'सुखप्रियादानुलोम्ये |५|१४|६३।१ इति डाचू । प्रियंवदा प्रियवादिनी । 'प्रियवशे वदः खच् | ३|२|३८ | १||१६-१९॥ तां प्रार्थनामाह - । सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर्वशंवदाम् | त्वद्भोगीनां सहचरीमशङ्कः पुरुषाऽयुषम् ॥ २० ।। सौमित्रे इत्यादि--हे सौमित्रे इच्छुरेषणशील | बिन्दुरिच्छुः । ३ । २२ १६९।' इत्यादिना निपातितः । अशङ्कः निर्विकल्पः सन् । किं मां वञ्चयिष्य- तीति । मामुपायंस्थाः परिणय । 'आशंसायां भूतवञ्च । ३ । ३ । १३२ ।' इति लुङ् । ‘उपाद्यमः स्वकरणे | १ | ३ | ५६ । इति तङ् । 'विभाषोपयमने । । १ ।२ । १६ ।” इत्यकित्त्वपक्षे रूपम् । कम्राम् । 'नमिकम्पिस्म्यजसकमहिंस- दीपो रः।३।२।१६७।’इति र ः। वशंवदाम्। अहं ते वश्येति वदन्तीम् | त्वद्भोगीनाम्