पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७४) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्थः- दधानत्यादि-सौ तं प्रार्थया चक्रे इति वक्ष्यमाणेन सम्बन्धः । मध्यं स्तनजघनयोरन्तरम् । वलिभं वलयोऽस्मिन् सन्तीति । 'तुन्दिवालवटेर्भः । ५ । २ । १३९ ।' दधाना धारयन्ती । कर्णजाहविलोचना । कर्णजांहं कर्णमूलसमपिमित्यर्थः 'तस्य पाकमूले पोल्वादिकर्णादिभ्यः कुणब्जाहचौ । ५ । २ । २४ ।' इति जाहचू । कर्णजाहयोर्विश्रान्ते विलोचने यस्या इति सप्त- म्युपमानेत्यादिना उपपद्लोपी बहुव्रीहिः । वाक्त्वचने वाक् च त्वक् चेति प्राण्यङ्गत्वादेकवद्भावः। ‘ द्वन्द्वाच्चुषहान्तात् समाहारे | ५|४|१०६ ।' इति टच् । अतिसर्वेण अतिक्रान्तेन सर्वम् । अत्यादय इति समासः । 'एक विभक्ति चापूर्वनिपाते। १ । २ । ४४ । ' इति सर्वशब्दस्योपसर्जनत्वेऽपि पूर्वनिपातो न भवति अपूर्वनिपात इति प्रतिषेधात् । वाक्त्वचेन वाङ्मयेन माधु- र्येण मार्दवेन चासाधारणेनोपलक्षितेनेत्यर्थः । इत्थम्भूते तृतीया । चन्द्रलेखेव पक्षतौ तनुत्वात् । पक्षोऽत्रार्धमास: तस्य मूले प्रतिपादि 1 “पक्षात्तिः । ५ । २ । २५ ।। सुपाद्विरदनासोरूर्मृदुपाणितलाऽङ्गुालेः । प्रथिमानं दधानेन जघनेन घनेन सा ॥ १७ ॥ - सुपादित्यादि – शोभनौ पादौ यस्याः असौ सुपात् । 'सङ्ख्यासुपूर्वस्य ३ ५४ । १४० ।' इति पादान्तलोप: 'पादोऽन्यतरस्याम् ।४। १ । ८ ।' इति यदा ङीप् नास्ति तदेत्थं रूपम् । द्विरदनासोरूद्विरदनासे इव करिपोतकरावि- व ऊरू यस्याः उपमानपूर्वो बहुव्रीहिः । 'ऊरुत्तरपदादौपम्ये । ४ । १ । ६९ ।। इति ऊङ् | रद्यते अनेनेति रदः दन्तः । 'पुंसि संज्ञायां घः - ३१३ | ११८ | इति घः करणे। द्वौ रदौ यस्येति द्विरदः। मृदुपाणितलागुलिः |तलं च अङ्गुलिश्चेति द्वन्द्वः । तत्र व्यन्ताल्पाच्तरयो: अल्पाच्तरस्य पूर्वनिपातः । पाण्योस्तलाङ्गुलि पाणितलाङ्गुलि । मृदु पाणितलाङ्गुलि यस्य । इति योज्यम् । प्रथिमानं पृथुतां धानेन धारयता । घनेन उपचितेन जघनेनोपलक्षिता सा राक्षसी ॥ उन्नसं दधती वक्रं शुद्धदल्लोलकुण्डलम् । कुर्वाणा पश्यतः शंयून् स्रग्विणी सुहसाऽऽनना ॥ १८ ॥ उन्नसमित्यादि--उच्यते अनेनेति वकम् । सर्वधातुभ्य औणादिकः न् । तत्र वकशब्दो मुखैकदेशे वर्तमानोऽपि कविभिः समुदाये प्रयुज्यते । वक्रं मुखमुन्नसं दधती। ‘नाभ्यम्ताच्छतुः । ७ । १ । ७८ ।' इति नुम् न भवति । ' प्रकृत्यादिभ्य उपसङ्ख्यानम्' इत्यनेन १ सा राक्षसी, तं सौमित्रिमित्यर्थः । २ ‘जटाभिस्तापसः' इतिवतृत्तीयेति भावः ।