पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (७१) 'देये त्रा च |५|४|५५|' इति चकारात् सातिश्च । होमवान् होमो विद्यते यस्येति कृताग्निकार्य इत्यर्थः ॥ ९ ॥ अथ द्वाभ्यां युग्मेकम् । वसानस्तन्त्रकनिभे सर्वाङ्गीणे तरुत्वचौ ॥ काण्डीर: खङ्गिकः शाङ्ग रक्षन् विमांस्तनुत्रवान् ॥ १० ॥ वसान इत्यादि -- असौ रामो वनेष्वानभ्र भ्रान्तवानिति वक्ष्यमाणेन श्लो- केन सम्बन्धः । वसानः परिद्धानः | 'वस आच्छादने ।' इत्यस्मात् शानच् । तरुत्वचौ वल्कले प्रत्य | तन्त्रक : 'तन्त्राचिरापहृते | ५|२|७० ।' इति कन् । तन्निभे तत्तुल्ये । सर्वाङ्गीणे सर्वाङ्गाणि व्याप्नुवत्यौ । 'तत्सर्वादेः पथ्यङ्गकर्मप- त्रपात्रं व्याप्नोति |५|२|७|' इति खः । काण्डीर: काण्डोऽस्यास्तीति । 'काण्डा - ण्डादीरनीरचौ |५|२|१११।' खाडिकः खड्गोऽस्यास्तीति । 'अत इनिठनौ ।५।२।११५।' 'खाङ्गिक' इति पाठान्तरम् । तत्र खड्ग: 'प्रहरणम् ।४।४।५७१' इति ठक् । शार्ङ्ग सधनुः । तनुत्रवान् तनुं शरीरं त्रायत इति तनुत्रम् | 'आतोऽनुपसर्गे कः | ३|२|३|| संसर्गे मतुप् | पिनद्धकवच इत्यर्थः । स एवं- विधो विप्रान् ब्राह्मणान् रक्षन् ॥ हित्वाऽऽशितङ्ग वीनानि फलैर्येष्वाशितम्भवम् || तेष्वसौ दन्दशूकाऽरिर्वनेष्वानभ्र निर्भयः ॥ ११ ॥ हित्वेत्यादि——आशितास्तृप्ता गावो येषु भवन्ति तृणप्रायत्वात् । 'अपडक्षा- शितङग्बलङ्कर्म्मालम्पुरुषाध्युत्तरपदात् खः ॥ ५॥४॥७॥' इति खः । पूर्वपदस्य च मा- न्तत्वं निपात्यते । तान्यरण्यानि हित्वा येषु वनेषु फलैराशितम्भवमाशितस्य भवनं तृप्तिवर्तते । ‘आशिते भुवः | ३|२|४५|' इति भावे खच् | तेम्वानभ्र । 'अभ्र, वभ्र' इति गत्यर्थो धातुः । लिटि 'अत आदे: (७१४।७०।' इति दीर्घे ‘तस्मान्नुड्विहलः ।७।४।७१ |' इति नुट् । ददशकारि: व्यालानां हन्ता । 'लुपसद चर जपजभदहदशगृभ्यो भावगर्हायाम् | ३ | १ | २४ ।। इति दंशेर्यङ् । तदन्तात् 'यजजपदशां यङः | ३|२|१६६|' इति ऊकः ॥१०-११॥ व्रातीनव्यालदीमाऽस्त्रः सुत्वनः परिपूजयन् || पर्षद्वलान् महाब्रह्मैराट नैकटिकाऽऽश्रमान् ॥ १२ ॥ व्रातीनेत्यादि -- तेषु वनेषु भ्रमन् नैकटिकाश्रमानाट गतवान् | अटेरभ्या- सस्य ‘अत आदेः ।७ । ४ । ७० ।' इति दीर्घत्वम् | ग्रामस्थान्तिके क्रोशमात्रं १' द्वाभ्यामेकल सम्बन्धे युग्मकं परिकर्त्यिते । त्रिभिर्विशेषकं प्रोक्तं चतुर्मिश्च कलापकम् ॥ कुन्तकं चाधिकैस्तेभ्यः इति वचनात् । एवं परखापि ।