( ७० ) भट्टिकाव्ये जयमङ्गलासमेते- तस्मिन्कृशानुसाद्भूते सुतीक्ष्णमुनिसन्निधौ । उवास पर्णशालायां भ्रमन्ननिशमाऽऽश्रमान् ॥ ७ ॥ [ चतुथ:- तस्मिन्नित्यादि--तस्मिन् शरभङ्गे कृशानुसाद्भूते कायैनानीभूते । 'विभाषा साति कायें |५|४|५२|| इति सातिः । रामः सुतीक्ष्णस्य मुनेः सन्निधौ समीपे पर्णशालायां पर्णकुटयामुवास उषितवान् । तत्र कृताधिवासस्य वृत्तिमाह भ्रमन्ननिशमाश्रमान् पर्यटन् सदा तपोवनानि मुनीन् उपासितुम् ॥ ७॥ वनेषु वासतेयेषु निवसन्पर्णसंस्तरः | शय्योत्थायं मृगान्विध्यन्नातिथेयो विचक्रमे ॥ ८ ॥ वनेष्वित्यादि -- वासतेयेषु वसती साधुषु । 'पथ्यतिथिवसतित्व पतेर्टञ् १४।४।१०४।' इति ढञ् । निवसन् शयानः । संस्तीर्यत इति संस्तरः । 'ऋदो- रप् ।३।३।६७|’ पर्णानि संस्तरो यस्येति पर्णसंस्तरः । शय्योत्थायं शय्याया उत्थाय । उत्पूर्वात्तिष्ठतेः ‘अपादाने परीप्सायां | ३|४||५२|' इति णमुल् । शय्यत अस्यामिति शय्या | 'संज्ञायाम् |३|३|९९|' इति क्यप् | त्वरया मुखधावना - दीन्यपि न कृत्वा । मृगान्विध्यन् ताडयन् । 'ग्रहिन्यावयिव्यधिवष्टिविचति- वृश्चतिपृच्छतिभृज्जतीनां ङिति च । ६। १ । १६ ।' इति सम्प्रसारणम् 'तत्रापि नात्मार्थं लुब्ध इत्याह आतिथेयः अतिथौ साधुः । पूर्ववत् ढञ् । विचक्रमे विह- रति स्म । 'वेः पादविहरणे |१|३|४|१|' इति तङ् ॥ ८ ॥ ऋग्यजुषमधीयानान् सामान्यांश्च समर्चयन् ॥ बुभुजे देवसात्कृत्वा शूल्यमुख्यं च होमवान् ॥ ९ ॥ ऋग्यजुषमित्यादि- ऋक् च यजुश्च ऋग्यजुषम् । 'अचतुरविचतुरसु- चतुरस्त्रीपुंसधेन्वनडुहर्सामवाङ्मनसाक्षिध्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रि न्दिवार्दिवसरजसनिःश्रेयसपुरुषायुषद्वधायुपत्र्यायुषर्ग्यजुषजातोक्षमोक्षवृद्धो-- क्षोपशुनगोष्ठश्वाः । ५ । ४ । ७७ ।' इति निपातितम् । 'द्वन्द्वाच्चुषहाऽन्तात् समाहारे । ५ । ४ । १०६ ।' इति टच् । ऋग्वेद यजुर्वेदं च अधीयानान् पठतः । इङोऽधिपूर्वस्य लटि शानचि रूपम् । 'न लोकाव्ययनिष्ठाखलर्थतनाम् ।२।३।६९।' इति षष्ठीप्रतिषेधः । सामान्यांश्च सामसु साधून द्विजान् । 'तत्र साधुः ||४|४|१८|' इति यत् । 'ये चाभावकर्मणोः |६|४|१६८।' इति प्रकृ तिभावः । समर्चयन् पूजयन् । शूल्यमुख्यं च मांसं बुभुजे भुक्तवान् । शूले उखायां च स्थाल्यां संस्कृतम् । 'शूलोखाद्यत् |४|२|१७|' । 'भुजोऽनवने । १ । ३।६६।' इति तङ् । किं कृत्वा - देवसात्कृत्वा देवेभ्यो दत्त्वा । तदधीनं कृत्वा । -
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०८
दिखावट