पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( ६९ ) शम् अत्राशिरसं अधोमस्तकम् अवाक् शिरो यस्येति । ऊर्ध्वं पादौ यस्येति उत्पादम् । भुजौ भक्त्वा मोटयित्वा । 'जान्तनशां विभाषा | ६ | ४ | ३२, इत्यनुनासिकलोपाभावपक्षे रूपम् ॥ ३ ॥ आंहिषातां रघुव्याघ्रौ शरभङ्गाऽऽश्रमं ततः । अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम् ॥ ४ ॥ आंहीत्यादि -- ततो विराधवधानन्तरं रघुव्यात्रौ शरभङ्गनाम्नो मुनेराश्रमं आंहिपातां गतवन्तौ । अहेर्लुङि रूपम् । अध्यासितं आश्रयीकृतम् । श्रिया लक्ष्म्या ब्राह्म्या ब्रह्मसम्बन्धिन्या । ब्रह्मण इयमित्यण् । 'ब्राह्मोऽजातौ | ६|४| १७१।' इति निपातनात् टिलोप: । 'ठिड्ढाणञ्यसञ्दघ्नञ्मात्रच्तयप्ठकूठ- व्यूकञ्करपः ।४।१।१५।’इति ङीप् । शरणे अवस्थाने साधु अनुकूलं शरण्यम् । ‘तत्र साधुः । ४।४।९८।' इति यत् । शरणैषिणां शरणं त्राणमेषितुं शीलं येषाम् ॥४॥ पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः । शरभङ्गः प्रदिश्याऽऽरात्सुतीक्ष्णमुनिकेतनम् ॥ ५ ॥ पुर इत्यादि – शरभङ्गो रामस्य पुरः अग्रतः वपुः शरीरं ज्वलने अग्नौ जुहवाञ्चकार कुष्ठित्वात्तस्य । 'भीहीभृहुवां श्लवच्च |३|१|३९|| इति आम् । आमि श्लुभावे द्विर्वचनम् । किं कृत्वेत्याह- प्रदिश्य कथयित्वा । किम् आरात् समीपे सुतीक्ष्णनाम्नो मुनेः केतनम् आश्रमम् । तत्र वासमुपकल्पयेति ॥ ५ ॥ तव किमत्रावस्थानमिति चेदाह -- यूयं समष्यथेत्यस्मिन्नासिष्महि वयं वने । दृष्टाः स्थ स्वस्ति वो यामः स्वपुण्यविजितां गतिम् ॥ ६ ॥ यूयमित्यादि-अपि नाम यूयं समैष्यथ आगमिष्यथ । आइपूर्व इण् आग- मने वर्तते । 'एयेधत्यूसु |६|११७८९ |' इति वृद्धिः । इत्यस्मात्कारणात् । अस्मि- न्वने वयमासिष्महि स्थिताः । आसेर्लुङि रूपम् । 'अस्मदो द्वयोश्च | १२|२|५९ | १ इति चकारस्यानुक्तसमुच्चयत्वादेकत्वे बहुवचनम् । अस्मदागमने किं ते फल- मिति चेदाह-दृष्टाः स्थ अधुना दृष्टा भवथ । अस्तेर्मध्यमपुरुषबहुवचने 'असो- रल्लोपः ।६।४।११।' इत्यकारलोपः । स्वस्ति कल्याणम् । वः युष्मभ्यम् । 'नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च । २ । ३१६ ।। इति चतुर्थी । 'बहुवचनस्य वस्नसौ |८|१|२१|' स्वपुण्येन विजितां लब्धां गतिं जन्म । यामः ब्रजामः । -रामरूपेण विष्णुरवतीर्णः तं दृष्ट्वा यास्याम इत्यत्र वयं स्थिता इति ॥ ६॥