पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६८) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्थ:- मदादेशः बहुवचनान्तत्वादिति विरोधः । पादुके रामस्यैव तर्ह्यस्मन्मतेन इत्य- त्रापि एकवचनम् । आवयो रामलक्ष्मणयोर्मतेनेति षष्ठीसमासे न दोषः ॥ इति श्रीजयमङ्गलाऽख्यया व्याख्यया समलङ्कृते श्रीभट्टिकाव्ये प्रथमे प्रकीर्णकाण्डे लक्षणरूपे तृतीयः परिच्छेदः, लक्ष्यरूपे कथानके श्रीरामप्रवासो नाम तृतीयः सर्गश्च । चतुर्थः सर्गः । निवृत्ते भरतें धीमान रामस्तपोवनम् | प्रपेदे पूजितस्तस्मिन्दण्डकारण्यमीयिवान् ॥ १॥ नेवृत्त इत्यादि -- धीमान् बुद्धिमान् अत्र स्थिते मयि कदाचिद्भरतः पुनरे- व्यतीत्येवं बुद्धिमान् रामः अत्रेर्महर्षेस्तपोवनं प्रपेदे गतः । तस्मिंश्च तपोवने अर्थ्यपाद्यादिभिः पूजितः । दाण्डक्यो नाम भोजो भार्गवकन्यामहरत् । तच्छा पात् पांसुवर्षेणाक्रान्तः सबन्धुराष्ट्रविनाशो यस्मिन् स्थाने तत्वोपलक्षितम् अरण्यमभूत् । तदीयिवान् गतवान् । 'उपेयिवाननाश्वाननूचानश्च |३|२|१०९/५ इत्यत्र उपसर्गस्यातन्त्रत्वात्केवलादपीणः कसुः ॥ १॥ अटाटयमानोडरण्यानीं ससीतः सहलक्ष्मणः । बलाबुभुक्षुणोत्क्षिप्य जहे भीमेन रक्षसा ॥ २ ॥ अटाट्येत्यादि – महदरण्यमरण्यानी । 'इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्य - यवयवनमातुलाचार्याणामानुक् | १४|११४९।' इति हिमारण्य योर्महत्त्वे ङीषानुकौ | ताम् अटाटथमानः अत्यर्थमटन् रामः | 'सूचिसूत्रिमूत्र्यटयर्त्यशूर्णोतिभ्यो यङ् वाच्यः' इति यङ् । ससीत: सहलक्ष्मण: 'वोपसर्जनस्य | ५|३|८२ |' इति विकल्पेन सभावः । बलात् बलवत्तया जहे हृतः गृहीत इत्यर्थः । कर्मणि लिट् । उत्क्षिप्य उत्थाप्य हस्ताभ्यां केनापि रक्षसा । वैश्रवणशापात् तुम्बुरुनाम्ना गन्धर्वेण राक्षसीभूतेन विराधाख्येन बुभुक्षुणा भोक्तुमिच्छुना | भीमेन भयान* केन । 'भियः पुक्' इत्यौणादिकपुगभावपक्षे रूपम् ॥ २ ॥ अवाक्छिरसमुत्पादं कृतान्तेनाऽपि दुर्दमम् । भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचनतुः ॥ ३ ॥ अवागित्यादि--तं विराधाख्यं राक्षसं कृतान्तेनापि यमेनापि । दुर्दमं दुःखेन दम्यत इति खलू । तौ रामलक्ष्मणौ भुवि निचरनतुनिखातवन्तौ । कोह