पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । त्सहेय | कनीयान् सन् | नैवेत्यर्थः 'शकघृषज्ञाग्लाघटरभलभक्रमसहा- र्हान्त्यर्थेषु तुमुन् ।३।४/६५ |' इति वहे: सहावुपपदे तुमुन् । 'गर्हायां लडपि- जात्वोः’इत्यनुवृत्तौ ‘विभाषा कथमि लिङ् च |३|३|१४३|' इति लिङ् । सहेरुत्पूर्वस्य आत्मनेपदित्वात् सीयुट् । इटोऽन् |३|४|१६|' लिङ: स- लोपोऽनन्त्यस्य |७|२|७९ | अंतो मा मां प्रयुक्था: मा नियोजय 'माडि ‘लुङ् |३|३|१७५।' 'झलो झलि |८|२|२६|' इति सिचो लोपः । कुलकी- र्तिलोपे । लोपयतीति लोपः पचाद्यच् | रघुवंशस्य या कीर्तः तस्य लोप • इति समासः । पूर्वैरनाचरितत्वात् । एवं च धर्म्यं धर्मादनपतं भरतोऽपि । प्राह स्म उक्तवान् ॥ ५४ ।। पुनश्चाह --- ऊर्जस्वलं हस्तितुरङ्गमेतदमूनि रत्नानि च राजभाञ्जि । (६७) राजन्यकं चैतदहं क्षितीन्द्रस्त्वयि स्थिते स्यामिति शान्तमेतत् ॥ ५५॥ • ऊजत्यादि - एतद्धस्तितुरङ्ग सेनाङ्गत्वादेवकद्भावः । ऊर्जस्वलं बलवत् । ऊर्जनमूर्क् | संपदादित्वात् विप् | सा विद्यते यस्येति । 'ज्योत्स्नातमिस्रा- शृङ्गिणोजस्विन्नू र्जस्वलगोमिन्मलिनमलीमसाः । ५ । २ । ११४ ।' इति वलच्, असुगागमञ्च | अमूनि च रत्नानि राजभाजि राजगृह्याणि । एतच्च राजन्यकं क्षत्रियसमूहः । क्षितीन्द्रो राजा अहं त्वयि स्थिते स्यामिति भवामीति शा- “न्तमेतत् । स्यामिति निमन्त्रणे नियोगकरणे लिङ् ॥ ५५ ॥ इति निगदितवन्तं राघवस्तं जगाद व्रज भरत! गृहीत्वा पादुके त्वं मदीये। च्युतनिखिलविशङ्कः पूज्यमानो जनौघैः सकलभुवनराज्यं कारयाऽस्मन्मतेन ॥ ५६ ॥ इतीत्यादि - इति एवं निगदितवन्तं उक्तवन्तं तं भरतं राघवो रामो जगाद उक्तवान् । किमित्याह-हे भरत मदीये पादुके उपानहौ गृहीत्वां त्वं व्रज गच्छ। विर्धी लोट्। अस्मदस्त्यदादित्वे 'त्यदादीनि च ||१|१|७४ |' इति वृद्धसज्ञायां तस्ये- दमयें 'वृद्धाच्छः ॥ ४ ॥२॥१९४' 'प्रत्ययोत्तरपदयोश्च |७|२|९८।। इति मदादेशः । ततश्च पूज्यमानो जनौधैर्जनसमूहै: । च्युवनिखिलविशङ्कः अपगताशेषविकल्पः सकलभुवनराज्यं सर्वत्र भूमण्डले राज्यं कारय अनुष्ठापय । पादुके इति योज्यम् । अस्मन्मतेन अस्माकमभिप्रायेण । अत्र मदादेशो न भवति । अस्मदो बहुवच- नान्तस्य विवक्षितत्वात् । तत्र ह्येकवचन इति वर्तते । ननु कथं मदीय इत्यत्र १ अत्र 'मालिनी' वृत्तं तल्लक्षणं चोक्तं प्राकू ।