पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६६) भट्टिकाव्ये जयमङ्गलासमेते- [ तृतीयः- कृतीत्यादि -- वृद्धानां पण्डितानां मतेषु श्रुतानि कृतानि चानुष्ठितानि येनेति । 'श्राद्धमनेन भुक्तमिनिठनौ ५ १२१८५|' इत्यधिकृत्य 'इष्टादि भ्यश्च |५|२१८८५ इतीनिः । तस्ये न्विषयस्ये० --' इत्यादिना कर्मणि सप्तमी । स्वमते भावतान्तादस्त्यर्थे इन् । स त्वमेवंविधः धीमान् पैतृकं पितुरागतम् । 'पितुर्यच्च । ४ । ३ । ७९ ।' इति चकारातष्ठान 'इसुसुक्तान्तात्क: ७|३|५१।' वैद्यदि वचनं न कुर्या: । मध्यमपुरुषैकवचने लिङि रूपम् । तदा विच्छिद्यमाने कुले वंशे परस्यापि अन्यस्यापि पुंसः | अपिशब्दो भिन्नक्रमः । कथं स्यादिह लोके पुत्रकाम्या । आत्मनः पुत्रेच्छा नैवेत्यर्थः । पुत्रशब्दात् 'का- म्यच्च |३|१||९|' इति काम्यच । तदन्ताद्प्रत्ययः । टाप् ॥ ५२ ।। ● अस्माकमुक्तं बहु मन्यसे चेद् यदीशिषे त्वं न माये स्थिते च । जिहेष्यतिष्ठन्यदि तातवाक्ये जहीहि शङ्कां व्रज शाधि पृथ्वीम् ॥ ५३॥ अस्माकमित्यादि--अस्माकमुक्तम् अस्मत्सम्बन्धि वचनं चेद् यदि बहु मन्यसे आद्रियसे । पितृतुल्यो भ्राता अस्यानुमतः कथमेवं न कुर्यामिति यदि च मयि स्थिते नेशिपेन प्रभुत्वं करोषि | प्रभुत्वमहं त्वदाज्ञाकर इति ईशेरा- दादिकस्य 'ईश: से १७१२१७७१' इतीडागमः । गुरुवचनमनतिक्रमणीयं विशेषतस्तातवत्यं तस्मिन्नतिष्ठन् वचनमकुर्वाण: यदि जिहेषि लज्जसे । श्लो |६|१|१०|' इतर्विचनम् । एतनिश्चित्याह-जहीहि शङ्कां त्यज विक- ल्पम् । व्रज गच्छ अयोध्याम् । शाघि पालय पृथ्वीम् । 'जातेश्च |६|४|११६|' इति इत्वे विकल्पिते । 'ई हल्योः |६|४|११३' इतीत्वम् । शासेः ‘शा हौ |६|४|३५|' इति शाभावः । तस्याभीयत्वेनासिद्धत्वात् 'हु- झल्भ्यो हेधिः ।६।४।१०१॥ ॥ ५३ ॥ । वृद्धौरसां राज्यधुरां प्रवोढुं कथं कनीयानहमुत्सहेय । मा मां प्रयुक्या: कुलकीर्तिलोपे प्राह स्म रामं भरतोऽपि धर्म्यम् ॥ २४॥ वृद्धौरसामित्यादि-भरतः प्राह । धूर्वहनशीला | धूर्नयनशीला इत्यर्थः । अनेकार्थत्वाद्धातूनाम् ‘भ्राजभासधुर्विधुतोजिंपूजप्रावस्तुवः विप् | ३|२|१७७७ | १ इति किरालोपः | ६|४|२१| इति बलोपः। राज्यस्य सप्ताङ्गस्य धूषत्री । प्रकृतिरिति विगृह्य 'ऋकपूरब्धःपथामानक्षे|५|४||७४ |' इत्यकारप्रत्ययः । ‘परवल्लिङ्गं द्वन्द्व- तत्पुरुषयोः ।२।४।२६।' इति धूरिति स्त्रीलिङ्गम् । ततष्टाप् । कीदृशीं वृद्धौरसां वृद्धो ज्येष्ठ: औरसः पुत्रो यस्याम् | उरसा निर्मित इति छन्दसो 'निर्मिते' इत्यनुवृत्तौ 'उरसोऽण् च | १४|४|१९४ | इत्यण । तां तिष्ठति रामे प्रवोढुं कथमु- १ एतेन रामस्य धीरोदात्तत्वं च सूचितम् ।