पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (६५) चिरं रुदित्वा करुणं सशब्दं गोत्राऽभिधायं सरितं समेत्य | मध्येजलाद्रराघवलक्ष्मणाभ्यां प्रत्तं जलं इयञ्जलमन्तिकेऽपाम् ॥ ५० ॥ चिरमित्यादि-चिरं महान्तं कालं करुणं समन्यु सशब्दं प्रतिकृत्य रुदित्वा " रलो व्युपधाद्धलादेः संश्च | १||२|२६|| इति कित्त्वे विकल्पिते 'रुदविदमुंषत्र- हिस्वपिप्रच्छः संश्च १ । २ । ८ । ' इत्यनेन नित्यं कित्त्वम् । सरितं समेत्य नदीं संभूय गत्वा । मध्येजलात् । जलस्य मध्यात् तस्माद्वा स्नात्वोत्थाय अवतीर्य ल्यब्लोपे पञ्चमी । 'पारेमध्ये षष्ठ्या वा |२|१|१८|' इत्यव्ययीभावः । 'नाव्ययीभावादतोऽम् त्वपञ्चम्याः । २ । ४ । ८३ ।। इति लुक्प्रतिषेधश्च । अपञ्चम्या इति प्रतिषेधात् अमपि न भवति । राघवलक्ष्मणाभ्याम् । अपामन्ति के समीपे जलं प्रत्तं दत्तम् । 'अच उपसर्गात्तः |७|४|४७।' गोत्राभिधायं नामाभि- धायम् । 'द्वितीयायां च |७|२|८७ |' इति णमुल् । द्वयञ्जलमिति । अञ्जलिपरि- च्छिन्नम् | जलमजली द्वौ विगृह्य । तद्धितार्थे समासः ' द्वित्रिभ्यामञ्जलेः ॥५॥ ४।१०३।' इति टच् । ताभ्यां प्रत्येकमञ्जलिप्रदानात् द्वावञ्जली प्रमाणमस्ये- त्यस्मिन्वाक्ये प्रमाणप्रत्ययस्य 'प्रमाणे ल: । द्विगोर्नित्यम्' इति लुक् । ततः समासान्तो न प्राप्नोति । अतद्धितलुकीत्याधिकारात् ॥ ५० ॥ → अरण्ययाने सुकरे पिता मां प्रायुङ्क राज्ये बत दुष्करें त्वाम् । मा गाः शुचं वीर ! भरं वहाऽमुमाभाषि रामेण वचः कनीयान् ५१ ॥ अरण्ययान इत्यादि - अरण्याय यानम् अरण्ययानं तस्मिन् सुकरे सुखसाध्ये पिता मां प्रायुङ्क्त नियुक्तवान् । युजे रौधादिकस्य लङि रूपम् । कर्त्रभिप्राये 'प्रोपाभ्यां युजेरयज्ञपात्रेषु | १|३|६४ | इत्यात्मनेपदम् । राज्ये दुष्करे दुःखसाध्ये त्वां प्रायुङ्क्त । एवं च सति हे वीर, शुचं शोकं मा गाः । मा कार्षीरित्यर्थः । ' इणोगा लुङि | २||४||४५।' गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २।४।७७|' इति सिचो लुक् । बत इति खेदे | किन्तु भरममुं पितुर्नियोगम् ।‘भृञ् भरणे ।' इत्य- स्मात् 'ऋोरप् | ३|३|५७ | वह संपादय | विधौ लोट् । एवं वचः रामेण कनीयान् अनुजो भ्राता भरतः आभापि भाषितः । कर्मणि लुङ् | ब्रू इत्यर्थ - हणात् द्विकर्मकता | अल्पशब्दादीयसुनि 'युवाल्पयोः कनन्यतरस्याम् |५॥ ३॥ ६४ |' इति कर्नाादशः ॥ ५१ ॥ कृती श्रुती वृद्धमतेषु धीमांस्त्वं पैतृकं चंद्रचनं न कुर्याः । विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्रकाम्या || ५२ ॥