पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६४) भट्टिकाव्ये जयमङ्गलासमेते- [तृतीयः दृष्ट्वेत्यादि- - बलौघान्दृष्ट्वा सौमित्रिस्तस्थौ स्थितः । अभ्यासस्य 'शपूर्वाः खयः ।७|४|६१|' इति खयः शेषः । कीदृशः ककुभो दिश ऊर्णुवानान् आच्छादयतः । ऊर्णोतेरदादिकस्योभयपदिनः शानचि उवडादेशे च रूपम् । शार्ङ्ग शृङ्गस्य विकारं धनुर्वितत्य आरोपितगुणं कृत्वा । 'वा ल्याप |६|४||३८|' इत्यनुनासिकलोपः । कवचं पिनह्य बद्ध्वा । 'गह बन्धने ' इत्यस्य ल्याप । अपिशव्दाकारलोपस्तु--'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।। धाञ्बोस्तनि नह्योश्च बहुलत्वेनं शौनकिः संग्रामयितुमिच्छुः । ‘संग्राम युद्धे ।' इति चौरादिको णिच् | तदन्तस्य सनि प्रथमस्यैकाचो द्विवचनम्। शितेषुः तीक्ष्णशरः अक्षिणी च भ्रुवौ च अक्षिभु- वम् । 'अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्व ० - १५१४/७७११ इत्यत्र निपातितः । उज्जिहानः ऊर्ध्वं नयन्। 'ओहाङ् गतौ । इत्यस्य जुहोत्यादिकस्य 'भृञामित १७।४।७६।' इतीत्वम् ॥ ४७ ॥ ॥' इति । सिसंग्रामयिषुः 1 शुक्लोत्तरासङ्गभृतो विशस्त्रान् पादैः शनैरापततः प्रमन्यून् । औहिष्ट तान्वीतविरुद्ध बुद्धीन विवन्दिषून्दाशरथिः स्ववर्ग्यान् ॥४८॥ शुक्लेत्यादि-दाशरथिस्तान् स्ववर्ग्यान् स्ववर्गे भवान् । 'अशब्दे यत्खौ - ४ | ३|६४ |' इति यत् । आत्मीया अपि कदाचित् दुष्टबुद्धयो भवन्तीत्याह- वीतविरुद्धबुद्धीन् । औष्टि ऊहितवान् । ऊहतेरात्मनेपदिनो लुङि आटू वृद्धिः । तदेवाविरुद्धबुद्धित्वं दर्शयन्नाह – शुक्लोत्तरासङ्गभृतः शुक्लो य उत्तरा- सङ्गः उत्तरीयं तं बिभ्रतीति क्विप् | विशस्त्रान् निरायुधान्। पादैरापतत आग- च्छतो मुक्तवाहनत्वात् । शनर्न त्वरया | प्रमन्यून् प्रकृष्टशोकान आगतशोकान् वा । विवन्दिपून् वन्दितुमिच्छून् ॥ ४८ ॥ समूलकापं चकषू रुदन्ता रामाऽन्तिकं बृंहितमन्युवेगाः । आवेदयन्तः क्षितिपालमुच्चैःकारं मृतं रामवियोगशोकात् ॥ ४९ ॥ समूळेत्यादि — ते रामान्तिकं रामसमीपं प्राप्ताञ्चकपुः पिष्टवन्तः समूल- कापं समूलं कपित्वा भमेरधोभागमुत्खन्य। 'निमूलसमूलयोः कपः | ३ ॥४॥ । ३४ ।' इति कर्णमुल । 'कपादिषु यथाविध्यनुप्रयोगः |३|४|४|१ रुदन्तः रोदनं कुर्वन्तः बृंहितमन्युवेगा विवृद्धशोकवेगाः ।" वृहि वृद्धौ " इत्यस्य रूपम् । रामवियोगशोकात् कारणात् क्षितिपालं दशरथमुच्चैःकारं कृत्वा । मृतं निधनं गतम् आवेदयन्तः । ' अव्यये यथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ३१ ४॥५९|' इति कृञो णमुल । एतद्यथाभिप्रेताख्यानमिति नीचराख्यातुमभिप्रेत- त्वात् उच्चैरावेदयन्ति ॥ ४९ ॥