पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | (६३) सकारस्य दकारः । अन्नादिकम् । 'अद 'दीनाह स्म उक्तवान् । किमाह — निवध्वं परिधत्त वस्त्राणि । 'वस आच्छादने।* इत्यस्य विधौ लोट् । 'झलां जश् झशि |८|४|५३|| इति आध्वं उपविशत । आसे: पूर्ववत् दादेशः । अत्त खादत अक्षणे ।' इत्यस्मात् लोट् । पानादिकं पिबत | पिबते: 'पात्राधमा स्थाना- दाणदृश्यर्तिसर्तिशद्सदां पिबजिब्रघमतिष्ठमन यच्छपश्यच्छेधौशीय सीदाः इति सूत्रेण पिबादेशः । शेध्वम् स्वपित शयने । सर्वत्र विधी लोट् ॥ ४४ ॥ ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते । - द्रुतं मध्वा रथवाजिनागैर्मन्दाकिनीं रम्यवनां समीयुः ॥ ४५ ॥ ते भुक्तेत्यादि – ते भरतादयः सुसुखामति क्रियाविशेषणम् । भुक्तवन्तः सन्तो वासांसि वसित्वा परिधाय | रजनीमुषित्वा रजनीं रात्रिं 'वसति- क्षुधोः- |७|२|५२।' इतीट् । 'कालाऽध्वनोरत्यन्तसंयोगे | २ | ३|५|' इति द्वितीया । द्रुतं शीघ्रं प्रभाते मन्दाकिनीं नहीं समीयुः संभूय गताः । [समध्वा अविच्छिन्नाध्वानः । सङ्गता अध्वन इति प्रादिसमासः । 'अपसर्गादध्वन:- ५१४ | ८५ |' इति समासान्तष्टच् । रथवाजीति द्वन्द्वैकवद्भावः । तेन सहिता नागा इति शाकपार्थिवादित्वात् समासः अन्यथा सेनाङ्गत्वात् समुदायस्यैकव- द्भावः स्यात् । रम्यवनां रमणीयकाननां रमणीयजलां वा ॥ ४५ ॥ वैखानसेभ्यः श्रुतरामवार्तास्ततो विशिञ्जानपतत्रिसङ्घम् । अभ्रंलिहाऽयं रविमार्गभङ्गमानंहिरेऽद्रि प्रति चित्रकूटम् ॥ ४६ ॥ वैखानसेत्यादि — ततो मन्दाकिनीगमनान्तरं वैखानसेभ्यस्तृतीया - -- मिभ्यः । चित्रकूटे रामोऽस्तीति श्रुतरामवार्ताः। चित्रकूटनामानमद्रिं पर्वतं प्रति । ‘लक्षणेत्थम्भूताख्यानभागवीप्लासु प्रतिपर्यनवः ||१|४|१०|| इति कर्मप्रवच- नीयसंज्ञा । 'कर्मप्रवचनीययुक्ते द्वितीया |२|३|८|' इति द्वितीया तं लक्ष्यी- कृत्य आनंहिरे जग्मुः । अंइतेर्लिंटि द्विवचनम् । 'हलादिः शेषः |७|४|६० | ' ‘अत आदेः ।७।४।७०।' इति दीर्घ: । 'तस्मान्नुड् द्विहलः |७|४|७१।' इति नुटू । विशिञ्जानपतत्रिसंधं कूजत्पक्षिगणम् । अलिहामं अभ्रस्पृशिखरम् । 'वहाऽभ्रे लिहः | ३|२||३२|' इति खश् । 'अरुद्विषदजन्तस्य मुम् ॥५॥४॥५१॥ इति मुम् । रविमार्गभङ्गम् । उच्चैस्तरत्वात् रखेर्मार्गभङ्गो यस्मि- नद्राविति ॥ ४६ ॥ दृष्ट्वोर्णुवानान्ककुभो बलौघान् वितत्य शार्ङ्ग कवचं पिनह्य | तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षिब्रुवमुज्जिहानः ॥ ४७ ॥