पृष्ठम्:रामकथामञ्जरी.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तमहं हेतुभिर्वाक्यर्विविधैश्च न्यदशर्यम् साधु निर्यात्यतां सीता रामायेति पुनः पुनः । स च न प्रतिजग्राह रावणः काल-चोदितः ॥२०॥ सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रां च दारांश्च राघवं शरणङ्गतः ॥२१॥ एतत्तु वचनं श्रुत्वा सुग्रीवो लघु-विक्रमः । लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥२२॥ "रावणस्यानुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर्भवन्तं शरणङ्गतः ॥२३॥ सुग्रीवस्य तु तद्वाक्यं रामः श्रुत्वा महाबलः । समीपस्थानुपाचेदं हनुमत्पमुखान् कपीन् ॥२६॥ आनयैनं हरि श्रेष्ठं दत्तमस्याभयं मया। विभीषणो वा सुग्रीवो यदि वा रावणः स्वयम् ॥२५॥ राघवेणा भये दत्ते संनतो रावणानुजः । तदा रामस्य धर्मात्या निपपात विभीषणः । पादयोः शरणापेक्षी चतुर्भिः सह राक्षसैः ॥२६॥ निर्यात्यताम् ) दीयताम् । ( अवमानित: ) तिरस्कृतः ( अन्नतः ) सम्मुखे। ( संरब्धम् ) संरम्मोपेतम् क्रिया-विशेषण मिदम् । (सनतः ) मतिप्रवण । (शरणापेक्षी ) शरणामिच्छन् ।