पृष्ठम्:रामकथामञ्जरी.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अब्रवीत् परूषं वाक्यं रावणः काल चोदितः ॥१३॥ "जानामि शीलं ज्ञातीनां सर्व-लोकेषु राक्षस । विभीषणस्य हृष्यन्ति व्यसने ह्येते ज्ञातीनां ज्ञातयस्तदा ॥१४॥ रावण-पक्षं इत्युक्तः परुषं वाक्य न्याय-वादी विभीषणः । व्यक्त्वा राम उत्पपात गदा-पाणिश्चतुर्भिस्सह राक्षसैः ।। सख्यम् अब्रवीच्च तदा वाक्यं जात-क्रोधः स रावणम् ॥१५॥ 'स त्वं भ्रातासि मे राजन् ब्रूहि मां यद् यदिच्छसि इदं तु परुषं वाक्य न क्षमाम्यग्रजस्य ते । स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना"||१६|| इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्यणः । उवाच च महा-प्राज्ञः स्वरेण महता महान् ॥१७॥ "निवेदयत मा क्षिप्रं राधवाय महात्मने। सर्व-लोक-शरण्याय विभीषणमुपस्थितम् ॥१८॥ रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः । चतुर्भिस्सह रक्षोभिर्भवन्तुं शरणङ्गतः ॥१९॥ ( कालचोदितः मृत्यु-प्रेरितः । ( अग्रजस्य) ज्येष्ठ प्रातुः । । सर्वेषां लोकानां शरण्याय ) शरण-भूताय ।