पृष्ठम्:रामकथामञ्जरी.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अब्रवीच्च तदा राम वाक्यं तत्र महाबलः "अनुजो रावणस्या तेन चाप्यवमानितः । भवन्तं सर्व-भूतानां शरण्यं शरणङ्गतः" ॥२७॥ इति ब्रुवाणं राम स्तु परिष्वज्य विभीषणम् । अब्रवील्लक्ष्यणं प्रीतः "समुद्राज्जलमानय !॥२८॥ तेन चेम महा-प्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद" एवं मुक्तस्तु सौमित्रि रभ्यषिञ्चद्विभीषणम् ॥२९॥ नलस्य लंका नलश्चक्रे महा-सेतुं मध्ये नद नदी-पतेः । सेतु बन्धनम्। वानराणां हि सा तीर्णा वाहिनी नल-सेतुना ॥३०॥

            तौ च दीर्घेण कालेन भ्रातरौ राम-लक्ष्मणों

लंका-प्राप्ति:। रावणस्य पुरी लंका मासेदतु रिन्दमौ ॥३१॥ ततस्ते राक्षसास्तत्रं गत्वा रावण मन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥३२॥ राम रावण अन्योन्य-बद्ध-वैराणां घोराणां जयमिच्छताम् । पक्षयोः युद्ध संप्रवृत्तं महा-युद्धं तदा वानर-रक्षसाम् ॥३३॥ प्रारम्भः युध्यतामेव तेषान्तु तदा वानर-रक्षसाम् । ( परिष्वज्य ). आलिङ्गय । ( वाहिनी ) सेना श्रावृताम् । ( अन्योन्य) परस्परं ( बद्ध वैर ) याभ्याम् ।