पृष्ठम्:रामकथामञ्जरी.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः। प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् । लक्ष्मणं चानुजानीहि सीता चान्वेति मावनम् ॥११॥ अनुजानीहि सर्वान्नः शोकमुत्सृज्य सानद । पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥१२०॥ नैवाह राज्यमिच्छामि न सुखं न च मेदिनीम् । त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ" ॥१२१॥ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिवाक्य मब्रवीत् 'रथमारोह भद्रं ते राज-पुत्र महायशः क्षिम त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे ||१२२॥ रामस्य वन-प्रस्थानम् अथो ज्वलन-संकाशं चामीकर-विभूषितम् । तमारुरुहतु स्तूर्णं भ्रातरौ राम-लक्ष्मणौ ॥१२॥ रामोऽपि रात्रि-शेषेण तेनैव महदन्तरम् । जगाम पुरुष-व्याघ्रः पितु राज्ञामनुस्मरन् ॥१२४।। आपृच्छे ) विज्ञापयामि । (कुशलेन ) चक्षुषेतिशेषः । अनृतम् ) असत्ययुक्तम् । ज्वलन-संकाशम् ) अग्निवद्दीप्तप्रभम् । ( चामीकर-विभूषितम् ) चामराजलंकृतम् । (रात्रि-शेषेण ) शेष-रात्रौ