पृष्ठम्:रामकथामञ्जरी.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥११२॥ इति सा शोक सन्तप्ता विलप्य करुणं बहु चुक्रोश पति मायस्ता भृशमालिङ्गय सुस्वरम् । तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् । उवाच वचनं रामः परिविश्वासयं स्तदा ॥११३॥ रामस्य सीतानयन स्वीकरणम् आरभस्व शुभ-श्रोणि, वन-वास-क्षमाः क्रियाः । नेदानी त्वदृते सीते, स्वोऽपि मम रोचले ॥११४॥ एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः । सीतामुवाचातियशा राघवञ्च महाव्रतम् । लक्ष्मणस्य प्रार्थनम् अहं त्वानुगमिष्यामि उनसने धनुर्धरः ॥११५॥ दत्वा तु सह वैदेशा ब्राह्मणेभ्यो धन बहु जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥११॥ स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्, उत्पपाता सनात्तर्णमातः स्त्री-जन संवृतः । तमसंपाच्य दुःखार्तः पपात भुवि मूर्छितः ॥११७॥ अथ रामो मुहूर्त्तन लब्ध-संझं महीपतिम् । उवाच प्राञ्जलिर्भूत्वा शोकार्णव-परिप्लुतम् ।।११८॥

( परिविश्वासयन्) उज्जीवयन् । (वन-वास-क्षमाः वनवाससोचिताः