पृष्ठम्:रामकथामञ्जरी.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(युग्मकम् ) तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् । ददर्श राघवो गङ्गां पुण्यामृषि-निषेविताम् ॥१२॥ जलाधाताट्ट हासोग्रां फेन-निर्मल-हासिनाम् । (कचित् वेणी-कृत-जलां कचिदावर्त-शोभिताम् ॥१२६॥ गुह-देश प्रापणम् तत्र राजा गुहो नाम समस्यात्म-समः सखा । निषाद-जात्या बलवान्स्थपतिश्चेति विश्रुतः ॥१२७॥ स श्रुत्वा पुरुष-व्याघ्रं रामं विषयमागतम् । वृद्धः परिष्कृतोऽमात्यैातिभिश्चाप्युपागतः ॥१२८॥ ततश्वीरोत्तरासङ्गः सन्ध्यामन्यास्य पश्चिमाम् । जलमेवाददे भोज्यं लक्ष्मणेनाहत स्वयम् ॥१२९।। प्रभातायां तु शय्या पृथु-वक्षा महायशाः । गुहं वचनमक्लीवं रामो हेतुमदब्रवीत् । (महदन्तरम् ) महादूरम् । त्रिपथगाम् ) त्रिभिः पथिभिः गच्छति इति ताम् । (शिव-तोयाम् ) स्वच्छ-जलाम् । ( शिला मध्य )-स्थले (यो जलाघात). शब्दः तद्रूपेण ( अट्टहासेन ). उग्राम् । अनेकविधतिर्यगादि-गमनेन (वैणी-कृतं जल ) यया । ( आवर्तैः अनेकविध-भ्रमित-जलैः, (शोभावतीम् ) । विषयम् ) देशम् अन्यास्य ) उपास्य । ( पश्चिमाम् ) माध्याह्नकालिकीम् (हेतुमद् )युक्तियुक्तम्