पृष्ठम्:रामकथामञ्जरी.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कैकेयी-सहितं दीनं मुखेन परिशुष्यता ।।६४॥ सपितुश्चरणौ पूर्वमभिवाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥६५।। रामेत्युक्त्वा च वचनं वाप-पाकुलेक्षणः । शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥६६॥ तदपूर्वं नरपतेदृष्ट्वा रूपं भयावहम् । चिन्तयामास चतुरो रामः पितृ-हिते रतः ॥६॥ दशरथं दृष्ट्वा समस्य खेदः "अन्यदा मा पिता दृष्ट्वा कुपितोऽपि प्रसीदति । तस्य मामय संप्रेक्ष्य किमायासः प्रवर्तते ॥६८॥ कैकेय्या तत्कारणप्रच्छनम् सदीन इव शोकेन विषण्ण-वदन-द्युतिः । कैकेयीमभिवाद्य व रामो वचनमब्रवीत् ॥६९।। 'कञ्चिन्मया नापराद्धमज्ञानादन मे पिता। कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ।।७।। अतोषयन् महाराजमकुर्वन् वा पितुर्वचः । मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे" ॥७१॥ मुखेन उपलक्षितम् । (सुसम्वहितः ) नित्यमेकाग्रचित्तः-वाष्पपर्याकुलेक्षणः) अश्रु-व्याप्त नेत्रः। (अन्यदा) अन्यकाले (आयासः) खेदः।