पृष्ठम्:रामकथामञ्जरी.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कैकया उत्तरम् एवमुक्ता तु कैकेयी राघवेण महात्मना । उवाचेदं सुनिर्लज्जा धृष्ट मात्महितं वचः ॥७२॥ यदि तद्वक्ष्यते राजा शुभ वा यदि वाऽशुभम् । करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्' एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् उवाच वचनं रामस्तां देवीं नृप-सन्निधौ ॥७॥ समस्य पित्रादेश-पालन-संदेहे शोकप्रकाशः "अहो धिङ् नाहसे देवि वक्तुं मामीदृशं वचः । अहं हि वचनाद्राज्ञ पतेयमपि पावके ॥७॥ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चाणवे । नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥७॥ तद्ब्रूहि वचनं देवि राज्ञो यदभिकाइक्षितम् कैकेय्या रामाय स्ववर-श्रावणम् करिष्ये प्रतिजाने च रामो द्विनाभिभाषते ॥७॥ तमार्जव समायुक्तमनार्या सत्यवादिनम् उवाच राम कैकेयी वचनं भृशदारुणम् । " सन्निदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम् ॥७८॥ (राजा यद् वक्ष्यति तत् करिष्यतीत्यर्थः):धिक् मामिति शेषः हितेन ) हितकर्त्रा । ( द्विर्नाभिभाषते ) यदुक्तं तदुक्तमेव, तद्विरुद्धं पुनर्न वदति । (आर्जव-समायुक्तम् ) विनयसम्पन्नम् । ( सन्निदेशे ) पितृ-प्रतिज्ञा-सम्पादने ।