पृष्ठम्:रामकथामञ्जरी.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। नाशकत् पाशमुन्मोक्तुं बलिरिन्द्र-कृतं यथा ॥५०॥ तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः । प्रभाता शर्वरी पुण्या चन्द्र-नक्षत्र-मालिनी ॥५१|| वसिष्ठो गुण-सम्पन्नः शिष्यैः परिवृतस्तदा । उपगृह्याशु संभारान् प्रविवेश पुरोत्तमम् ।।५२।। सुमन्त्र-प्रवेशः सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् द्वारे मनुज-सिंहस्य सचिवं प्रियदर्शनम् ॥५३॥ तमुवाच महातेजाः सूत-पुत्रं विशारदम् । वसिष्ठः "क्षिप्रमाचक्ष्व नृपतेमामिहागतम्" ॥५४॥ इति तस्य वचः श्रुत्वा स्त-पुत्रो महाबलः । स्तुवन्नृपति-शार्दूल प्रविवेश निवेशनम् ॥५५।। यदा वक्तुं स्वयं दैन्यान् शशाक मही-पतिः । तदा सुमन्त्र मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥५६॥ ( इन्द्रकृतम् ) इन्द-प्रेरित-वामनकृतम् । (पाशम् ) पद- त्रयमित प्रतिज्ञात-भूमि-दान-रूपम् । ( प्रभाता माता-) रात्रिरित्यर्थः । ( संभारान ) कुशादीन् । ( दैन्यं ) सत्य-पाश-बन्धनम् मन्त्रज्ञा) स्वकार्ये वक्तव्या ।