पृष्ठम्:रामकथामञ्जरी.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रतिग्रह्याब्रवीद्राजा नेभ्या प्रिय-हितं वचः ॥१२॥ "अहोऽस्मि परम-प्रीतः प्रभावश्चातुलो मम । यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थापिच्छथ" ॥१३॥ ततः सुमन्त्र द्युतिमान् राजा वचनमब्रवीत् । . रामः कृतात्मा भवता शीघ्रमानीयतामिति" ॥१४॥ स तथेति प्रतिज्ञाय सुमन्त्रो राज-शासनात् । रामं तत्रानयाञ्चक्रे रथेन रथिनां वरम् ॥१५॥ प्रासादस्थो रथ-गतं ददर्शायान्तमात्मजम् । गन्धर्व-राज-प्रतिम लोके विख्यात-पौरुषम् ॥१६॥ तं दृष्ट्वा प्रणतं पाश्र्वे कृताञ्जलि-पुटं नृपः । दिदेश श्रीमान् रुचिरं रामाय परमासनम् । उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥१७॥ त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः । तस्मात्वं पुष्य-योगेनै यौवराज्यमवाप्नुहि । प्रगृहीतानि) प्रकर्षेण शिरसि बद्धानि । (कृतात्मा ) धर्मे कुतबुद्धिः । (गन्धर्व राज-प्रतिमम् ) सौन्दर्णे गन्धर्व-राज-तमम् । विख्यातम् ) प्रसिद्धम् पौरुषं ) यस्य तम् । कृताञ्जलि-पुटम् ) बद्ध हस्त-व्यम् । पुष्य-चोगेन) चन्द्रस्य पुष्ययोगा-पलक्षितकाले