पृष्ठम्:रामकथामञ्जरी.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति" ||१८॥ अथाभिवाद्य राजानं रथमारुह्य राघवः । ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ॥१९॥ ज्ञाति-दासी यतो नित्य कैकय्या स्तु सहोषिता प्रासादं चन्द्र-सङ्काशमारुरोह यदृच्छया ॥२०॥ मन्धरायाः कैकेय्युत्तेजनन् प्रहृष्ट-मुदितैः परिच्छित्त-ध्वज-मालिनीम् । अयोध्यां मन्थरा दृष्ट्या परं विस्मयमागता ॥२१॥ प्रहर्षोत्फुल्ल नयनां पाण्डुर-क्षीम-वासिनीम् । अविदूरे स्थितां दृष्टवा धात्री पपच्छ मन्थराः। अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे ॥२२ विदीर्यमाणा हर्षेण धात्री तु परया मुदा । आरचक्षेऽथ कुब्जायै भूयसी राघवश्रियम् ॥२३॥ (कामतः) प्रकामम् । शान्तिदासी. मातृकुलस्य दासी । चन्द्र-संकासम्) सुधा-धवलितलातु । ( यदृच्छया ) न केनापि प्रेषिता । पौरैरुपलक्षिताम् । ( उच्छ्रितः ) प्रासादशिखरारोपिताः (ध्वजानां मालाः) श्रेणयः यस्याम् । (प्रहर्षेण प्रत्फुल्ले ) विकसिते (नयने यस्यास्ताम् । ( पाण्डुर-क्षौम-वालिनीन) श्वेत-वस्त्र-धराम् ।धात्रीम् रामस्येतिशेषः । (राघव-श्रियम् ) राघवे राज्ञा न्यस्यमाना । (श्रियं ) राज्यलक्ष्मीम् ।