पृष्ठम्:रामकथामञ्जरी.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सोहं विश्रायमिच्छामि पुत्रं कृत्वा प्रजाहित ! सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षयान् " ||६|| इदं ब्रुवन्तं मुदिताः प्रत्यानन्दनृपापम् । वष्टिमन्तं महामेघं नदन्त इव वर्हिणः ॥७॥ "इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्रावृताननम्।।८।। [ युग्मकम् ] रामः सत्पुरुषो लोके सत्य-धर्म-परायणः । बुद्ध्या हस्पतेस्तुल्या वीर्ये साक्षाच्छचीपतेः ॥९॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता । शक्तस्त्रैलोक्यमप्येको मोक्तुं किंतु महीमिमाम् ॥१०॥ तमेवं-गुण-सम्पन्नं रामं सत्यपराक्रमम् । लोकपालोपमं नाथमकामयत्त मेदिनी" ॥११॥ तेषामञ्जलि-पमानि प्रगृहीतानि सर्वशः 1 (प्रत्यानन्दन् ) प्रशंसन् । ( वृष्टिमन्तम् ) वर्षन्तम् । बर्हिणः ) मधुराः । (छत्रावृतानन ) छत्रेण आवृतमाननं यस्य तम् ।(वृहस्पतेः ) देवगुरोः। (शचीपतेः ) इन्द्रस्य । ( मेदिनी ) तत्स्थोजन इत्यर्थः । ( अञ्जलिपद्मानि) पद्माकारानञ्जलीन् ।