पृष्ठम्:रामकथामञ्जरी.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चत्वारस्ते चतसृणां वसिष्टस्य मते स्थिताः ! यथोक्तेन पथा चक्रुर्विवाहं विधि-पूर्वकम् ।।७७॥ विश्वामित्र- गमनम् अथ राज्यां व्यतीतायां विश्वामित्रो महामुनिः । आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् ।।७८॥ रामस्य परशूराभिमुख्यं तस्य च पराजयः राजाप्ययाध्याधिपतिः सह पुत्रैर्महात्मभिः । ऋषीन् सर्वान् पुरस्कृत्य जगाम सक्लानुगः ॥७९॥ दर्दश भीमसंकाशं जटामण्डलधारिणम् भार्गवं जामदग्नेयं मार्गे राज-विमर्दिनम् । रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥८॥ राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम् । धनुषो भेदनञ्चैव निखिलेन मया श्रुतम् । तच्छुत्वाहमनुप्राप्तो धनुर्गृह्य परं शुभम् ।।८।। तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः (यथोक्तेन पथा ) शास्त्रोक्त विधिना । ( आपृच्छ्य ) अनुमतिं गृहीत्वा । ( सबलानुगः ) बलैः अनुगैरनुचरैश्च सहितः । (राज-विमर्दिनम् ) क्षत्रिय-ध्वंसकम् । निखिलेन ) निश्शेषतः । (गृह्य } गृहीत्वा आर्षमिदम् ।