पृष्ठम्:रामकथामञ्जरी.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूरयस्व शरेणैव स्ववलं दर्शय च ॥४२॥ श्रुत्वा तु जामदग्न्यस्य वाक्यं दाशरथिस्तदा । आरोप्य स धनूरामा शरं सज्यं चकार । निर्वीर्यो जामदग्न्येऽसौ रामा राममुदैक्षत ।।८।। परशुरामगमनम् ततोऽभिहतवीर्यत्वात्सहसैव जडीकृतः । जामदग्न्यो जगामाशु महेन्द्र पर्वतोत्तमम् ॥८४॥ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो वृषः । चोदयामास तां सेनां जगामाशु ततः पुरीम् । दशरथस्यायोध्याप्राप्तिः ननन्द सजना राजा गृहे कामै सुपूजिता ।।८।। कृतदाराः कृतास्त्रांश्च सधनाः ससुहृज्जनाः शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ॥८६॥ कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् । भरतं कैकेयी-पुत्रमब्रवीत् रघुनन्दनः । त्वां नेतुमागतो बीले युधाजिन्यातुलस्तव ।।८७॥ गते च भरते. रामा लक्ष्मणश्च महाबलः पितरं देवसंकाशौ पूजयामासतुस्तदा ।।८८॥ पूरयस्व ) शरयुक्तं कृत्वा आकर्षस्व । ( सज्यं ). ज्यायुक्तम् । अभिहत वीर्यत्वात् ) निर्जित-पराक्रमत्मात् । (वर्तयंति) पित्रुक्तं कुर्वन्ति ।