पृष्ठम्:रामकथामञ्जरी.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम् ॥७०॥ स्वागतन्ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव । पुत्रयोरुभयोः प्रीति लप्स्यसे वीर्य-निर्जिताम् ॥७॥ ददामि परमप्रीतो वध्वौ ते मुनि-पुङ्गव । सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ॥७२॥ एवं भवतु भद्रं वः कुशध्वज-सुते इमे । दशरथस्य पुत्राणां परिणयः पत्न्यौ भजेतां सहितौ शत्रुघ्न-भरतावुभौ ॥७॥ ततः सीतां समानीय सर्वाभरण भूषिताम् । समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा । अब्रवीज्जनको राजा कौशल्यानन्द-वर्धनम् ।।७४॥ " इयं सीता मम सुता सह-धर्म-चरी तव ।। प्रतीच्छ चैनां भद्रन्ते पाणि गृहीष्व पाणिना ।।७।। पतिव्रता महाभागा छायेवानुगता सदा"। इत्युक्त्वा प्राक्षिपदाना मन्त्रपूतं जलन्तदा ।।७६|| जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन् । दिष्ट्या ) अस्मद्भाग्यवशेन । वीर्यनिर्जिताम् ) शौर्यप्राप्ताम् ।अन्गेः समक्षम् ) राघवाभिमुखे संस्थाप्य ।। सहधर्मचरी धर्म-कार्येष्वभिन्नरूपा, स्त्रियाः पुरुषार्धाङ्गिनीत्वात् । (प्रतीच्छ) प्रतिगृहाण । (मंत्रपूतम् ) कन्यादानमन्त्रेण पूतम् ।